SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वा.रा.भू. ॥ २० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कदा विति । स्पष्टम् ॥ २० ॥ शुतरं मलिनम् ॥ २१ ॥ एवमिति । विलपतः विलपति सति ॥ २२ ॥ आश्वासित इत्यर्थम् । उपासत उपास्त ।। आतुरपि लक्ष्मणस्य पुरतो रघुनाथस्यैवंविधवचनप्रयोगस्तस्य सर्वविधसेवकत्वात् । अतो नानौचित्यम् ॥ २३ ॥ २४ ॥ रामानु० - आश्वासित इति । उपासत उपास्त । वचनव्यत्यय आर्थः । उपागमदिति वा पाठः ॥ २३ ॥ इति श्रीगोविन्द • श्रीरामायण • रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चमः सर्गः ॥ ५ ॥ ७ स० १ कदा नु खलु मां साध्वी सीता सुरसुतोपमा । सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं पयः ॥ २० ॥ कदा शोकमिमं घोरं मैथिलीविप्रयोगजम् । सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा ॥ २१ ॥ एवं विलपतस्तस्य तत्र रामस्य धीमतः । दिनक्षयान्मन्दरुचिर्भास्करोऽस्तमुपागमत् ॥ २२ ॥ आश्वासितो लक्ष्मणेन रामः सन्ध्यामुपासत ॥ २३ ॥ स्मरन् कमलपत्राक्षीं सीतां शोकाकुलीकृतः ॥ २४ ॥ इत्यार्षे श्रीमद्युद्धकाण्डे पञ्चमः सर्गः ॥ ५ ॥ लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भयावहम् । राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना । अब्रवीद्राक्षसान् सर्वान् ह्रिया किंचिदवाङ्मुखः ॥ १ ॥ धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी । तेन वानरमात्रेण दृष्टा सीता च जानकी ॥ २ ॥ एवं रामवृत्तान्तमुक्त्वा हनुमन्निर्गमकालानन्तरकालिकं रावणवृत्तान्तं वक्तुमुपक्रमते - लङ्कायामिति । घोरं दुर्दर्शम् । शक्रेणेव शक्रतुल्येन । “इवेन सह नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्” इति विभक्तेरलोपः ॥ १ ॥ वानरमात्रेण वानरजातीयेन । वानरेष्वल्पेनेति यावत् ॥ २ ॥ मानसमिति सीतां प्रत्याहृत्य कदानु शोकमुत्स्त्रक्ष्यामीत्यर्थः । एतत् मुखं व्यादाय स्वपितीति वदपूर्वकालेऽपि क्त्वाप्रत्ययस्साधुः॥ १९॥२०॥ शुक्रेत्तरं मलिनम् ॥२१॥ एवमिति । विलपतः सतः ॥ २२ | आश्वासित इत्यस्य लोकस्योत्तरार्धं तु-स्मरन कमलपत्राक्षीं सीतां शोकाकुलीकृतः इत्थेतत् । स्मरन्निति हेतौ शतृप्रत्ययः । सीतास्मरणाद्धेतोः शोकाकुलीकृतो रामो लक्ष्मणेनाश्वासितः सन्ध्यामुपासत । उपागमदिति वा पाठः ॥ २३ ॥ २४ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामा यणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां पञ्चमः सर्गः ॥५॥ लङ्कायामिति । हनुमता शक्रेणेव कृतं घोरं कर्म दृष्टा राक्षसानब्रवीत् ॥ १॥ द्वीबीजमाह-धर्षितेति । स-महात्मना शक्रेणेवेत्यनेन हनुमत्कृतकर्मणः “ इन्द्रो वृत्रहत्वा महानांस" इत्युक्तरीत्या महेन्द्रकृतिसाध्यत्वेपि रावणमृत जितेन्द्र प्रयत्ना विषयत्वं सूचयति ॥ १ ॥ For Private And Personal Use Only टी. यु.प ॥ २०॥
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy