________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
केदारस्येति । जीवन्तीं तां शृणोमीति यत् तेन । निरूदकः निरुदकः । केदारः वप्रम् । सोदकस्य केदारस्य उपस्नेहेन उपछेदेनेव जीवामि ॥ ११ ॥ कदेति । स्पष्टम् ||१२|| रसायनं शरीरसिद्धिकरमौषधविशेषम् । आतुरः रोगी । "आतुरोऽभ्यमितोऽभ्यान्तः" इत्यमरः ॥१३॥ संहृतौ विष्टौ ॥१४॥ केदारस्येव केदारः सोदकस्य निरूदकः । उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम् ॥ ११ ॥ कदा नु खलु सुश्रोणीं शतपत्रायतेक्षणाम्। विजित्य शत्रून द्रक्ष्यामि सीतां स्फीतामिव श्रियम् ॥ १२ ॥ कदा नु चारु बिम्बोष्ठं तस्याः पद्ममिवाननम् । ईषदुन्नम्य पास्यामि रसायनमिवातुरः ॥ १३ ॥ तस्यास्तु संहतौ पीनौ स्तनौ ताल फलोपमौ । कदा नु खलु सोत्कम्पौ श्लिष्यन्त्या मां भजिष्यतः ॥ १४ ॥ सा नूनमसितापाङ्गी रक्षोमध्यगता सती । मन्त्राया नाथहीनेव त्रातारं नाधिगच्छति ॥ १५ ॥ कथं जनकराजस्य दुहिता सा मम प्रिया । राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ॥ १६ ॥ कदाऽविक्षोभ्यरक्षांसि सा विधूयोत्पतिष्यति । विधूय जलदान्नीलान शशि रेखा शरत्स्विव ॥ १७ ॥ स्वभावतनुका नूनं शोकेनानशनेन च । भूयस्तनुतरा सीता देशकालविपर्ययात् ॥ १८ ॥ कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान् । सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसम् ॥ १९ ॥
| सेति । स्पष्टम् ॥ १५ ॥ कथमिति । स्पष्टम् ॥ १६ ॥ कदेति | अविक्षोभ्यरक्षांसीत्येकं पदम् | अविक्षोभ्याणि दुराधर्षाणि रक्षांसि || १७|| स्वभावेति । | देशकालविपर्ययात् देशकालयोर्व्यत्यासात् । सुखावद्दयोदेशका लयोरपगमात्तद्विरुद्ध यो रुपगमाच्चेत्यर्थः ॥ १८ ॥ सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसमिति । सीतां प्रत्याहृत्य कदा नु शोकमुत्स्रक्ष्यामीत्यर्थः । आस्यं व्यादाय स्वपितीतिवत्साधुः ॥ १९ ॥
एतत्कामयानस्य कामिनो ममैतेन जीवितुं शक्यम् कामिनोरेकशय्याश्रयणवत् एकधरण्याश्रयणमपि जीवनसाधनमिति भावः ॥ १० ॥ जीवनहेत्वन्तरमादकेदारस्येति । निरुद्रकः निरुदकः । उपस्नेहेन उपक्केदेन ॥ ११ ॥ स्फीतां श्रियमिव समृद्ध राज्यलक्ष्मीमिव ॥ १२ ॥ रसायनं शरीरसिद्धिकरमौषधम् । आतुरो रोगी ॥ १३ ॥ संहतो श्लिष्टौ ॥ १४-१६ ॥ अविक्षोभ्यरक्षांसि इत्येकं पदम् | अविक्षोभ्याणि दुराधर्षाणि रक्षांसि विधूय उत्पतिष्यतीति सम्बन्धः ॥ १७ ॥ स्वभाव तनुका प्रकृत्या कुशशरीरा देशकालविपर्ययात् देशकालव्यत्यासात, सुखसाधनभूतदेशकालयोरभावादित्यर्थः ॥ १८ ॥ सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य
For Private And Personal Use Only