________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.म. इति प्रयोगात् ॥ ३८॥ न केवलमयकामावेव धनमूली, अन्येऽपि तथेत्याह-हर्ष इति । प्रवर्तन्ते प्रकृष्टानि वर्तन्ते, शोभन्त इत्यर्थः। असतो निधनस्य टी.यु.का. IRTHशमदमो हि धनलाभे निवर्तेते ॥ ३९ ॥ न केवलमामुष्मिकश्रेयःसाधनभूतोऽर्थः, किन्तु ऐहिकश्रेयःसाधनं चेति व्यतिरेक मुखेन प्रतिपादयन् तादृशो | स०८
यस्त्वयि नास्तीत्याह-येषामिति । येषां चरतामित्यनादरे षष्ठी । येषां चरतां यान् चरतो विद्यमानानाननादृत्य धर्मचारिणां केवलं धर्ममाचरताम्
हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः। अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥३९॥ येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् । तेऽस्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ॥४०॥ त्वयि प्रवाजिते वीर गुरोश्च वचने स्थिते । रक्षसाऽपहृता भार्या प्राणैः प्रियतरा तव ॥११॥
तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम् । कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ॥४२॥ अयं लोको नश्यति, ऐहिकसुखं नास्तीत्यर्थः । ते तादृशाः सुखसाधनभूताः अर्थाः दुर्दिनेषु मेघच्छन्नदिनेषु । " मेघच्छन्नेऽह्नि दुर्दिनम्" इत्यमरः। Kसूयादयो ग्रहाः यथा न दृश्यन्ते, तथा त्वयि न दृश्यन्ते । सकलश्रेयःसाधनभूता अर्थास्त्वया नादृता इत्यर्थः ॥ ४० ॥ अर्थहेतुभूतराज्यपरित्यागना
पितृवचनपरिपालनरूपकेवलधर्मावलम्बनेन च प्राप्तं दोपमाह-त्वयीति । प्राणःप्राणेभ्यः। प्राणस्वल्पं प्रियतरेति वाऽर्थः॥४१॥ एवं गते किं करणीय Pामित्यत्राह-तदद्येति । भवत्कर्मणा प्राप्तं दुःखं मत्कर्मणा व्यपनेष्यामीत्यर्थः । कृतप्रतिक्रियया तहुःखं निवारयिष्यामीति भावः ॥१२॥ प्रवर्तन्ते शोभन्ते इत्यर्थः ॥ ३९ ॥ न केवलमाभुष्मिकश्रेयस्साधनभूतोऽर्थः, किन्तु ऐहिक श्रेयस्साधनभूतोऽपीति व्यतिरेक प्रतिपादयन् तादृशोऽर्थस्त्वयि नास्तीत्याह-येषामिति । चरतामिन्यनादरे षष्ठी । येषां चरताम् यान् चरतः पुरतो विद्यमानानर्थान अनाहत्य धर्मचारिणां धर्ममाचरता पुरुषाणाम् अयं । लोको नश्यति ऐहिकसुखं नास्तीत्यर्थः । एतादृशेहिकसुखसाधनभूतार्थाः दुर्दिनेषु ग्रहा यथा तथा त्वयि न दृश्यन्ते सकल श्रेयस्साधनभूतार्थास्त्वया नादृता, इत्यर्थः ॥ ४० ॥ अर्थपरित्यागेन धर्म चरतामनौँ भवतीत्यस्मिन पक्षे रघुनाथमेव दृष्टान्तयति-वयीति । भाणेः प्राणेभ्यः ॥४१॥ तद्विपुलं दुःखं कर्मणा व्यपा ॥२०॥
स-चरता " चर गतिभक्षणयोः " गत्यर्थाना ज्ञानार्थत्वाऽज्ञानिनाम् । धर्मचारिणामपि तेषामष्यादिजनानां येषामर्थानामभावादयं लोकः ऐहिकसुखं नश्यति, तेऽर्थास्वथ्यपि, न दृश्यन्ते । चरतां मक्षयता राक्षसानाम् अयं लोको जनः धर्मचारिणां तेषां येभ्यो नश्यति हेऽर्थास्वपि न दृश्यन्त इति वा । दुर्दिनं मेघच्छन्नदिनम् ॥ १० ॥ राज्पत्यागाचातुर्यमूलमेतदिलाह-स्वयीति ॥११॥
For Private And Personal Use Only