________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तदेव प्रतिपादयति- अर्थेनेत्यादिना । कुसरितः अल्पसरितः ॥ ३३ ॥ न केवलमर्थपरित्यागेन धर्मासम्भवः, किंतु दोषप्राप्तिरपीत्याह- सोऽयमिति । सुखैधितः पूर्व सुखेन संवर्धितः, सोऽयम् अर्थपरित्यागी अर्थ प्राप्तं परित्यज्य सुखकामः सन् पापम् अन्यायेनार्थार्जनम् सुखसाधनभूतघन सम्पादनार्थं स्तेयादिपापम् आरभते । ततः तेन कर्मणा दोषः प्रवर्तत इत्यर्थः ॥ ३४ ॥ यस्पार्थास्तस्य मित्राणीत्यादिश्वोकद्वयं कचित्पठ्यते ।
सोऽयमर्थे परित्यज्य सुखकामः सुखैधितः । पापमारभते कर्तुं ततो दोषः प्रवर्तते ॥ ३४ ॥ यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमानू लोके यस्यार्थाः स च पण्डितः ॥ ३५ ॥ यस्यार्थाः सच विक्रान्तो यस्यार्थाः स च बुद्धिमान् । यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः ॥ ३६ ॥ अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया । राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता ॥ ३७ ॥ यस्यार्था धर्मकामार्था स्तस्य सर्वे प्रदक्षिणम् । अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥ ३८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पुमान् पुंस्त्ववान् । अन्यः स्त्रीप्राय इत्यर्थः । महाभागः महाभाग्यः । महागुणः शीलादिगुणवान् ॥ ३५ ॥ ३६ ॥ अर्थस्येति । अर्थस्य परित्यागे एते पूर्वोक्तगुणप्रतियोगिनो निर्मित्रत्वादयो दोषाः प्रव्याहृताः स्पष्टमुक्ताः । राज्यमुत्सृजता त्वया येन गुणेन बुद्धिः अर्थपरित्यागविषया कृता तं गुणं न जान इत्यर्थः । यद्वा राज्यमुत्सृजता त्वया येन कारणेनार्थपरित्यागे बुद्धिः कृता तेन कारणेन एते दोषाः मया प्रव्याहृता इत्यर्थः ॥ ३७ ॥ यस्येति । धर्मकामार्थाः धर्मकामप्रयोजनानि । प्रदक्षिणम् अनुकूलम् । प्रतिष्ठितमिति वा पाठः । व्यतिरेकमुखेनाप्याह- अघनेनेति । अधनेन धनं विना अर्थकामेनापि । विचिन्वता अर्थार्जनव्यापारं कुर्वता पुरुषेण । अर्थः श्रेयः । न शक्यं न साधयितुं शक्यम् । अव्ययमेतत् । " शक्यमरविन्दसुरभि
| संवृत्तेभ्यः संप्राप्तेभ्यः । क्रियाः धर्ममूलभूतक्रियाः ॥ ३२ ॥ ३३ ॥ न केवलमर्थपरित्यागे धर्माभावः, किन्तु दोषप्राप्तिरपीत्याह-सोऽयमिति । सोऽयमर्थपरित्यागी अर्थ परित्यज्य प्राप्तमैश्वर्यं त्यक्त्वा सुखेधितः । पापमनार्जवम् । ततः तेन पापेन दोषः प्रवर्तते ।। ३४-३६ ॥ अर्थस्य परित्यागे पते दोषाः प्रव्याहताः स्पष्टमुक्ताः, राज्यमुत्सृजता त्वया येन गुणेन बुद्धिः अर्थपरित्यागविषया कृता, तब जान इति शेषः ॥ ३७ ॥ प्रदक्षिणम् अनुकूलम् अर्थकामेन श्रेयोर्थिना, अर्थः श्रेयः ॥ ३८॥
For Private And Personal Use Only