________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥२५९॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
यथाकालमुभयमपि कर्तव्यमिति भावः । " यान्येतानि देवक्षत्राणीन्द्रो वरुणः पर्जन्यो यम ईशानः" इतीन्द्रस्य क्षत्रियत्वं श्रूयते ॥ २९ ॥ इदानीमभ्युप गमवादेनैकान्ततो धर्माधर्मयोरेकस्याश्रयणमनर्थपर्यवसायीत्याह- अपर्मेति । अधर्मसंश्रितो धर्मः अधर्मसहितो धर्म, धर्मश्चाधर्मश्चेत्यर्थः । विनाश यति, कर्तारमिति शेषः । नियमेन पृथक् पृथगनुष्ठीयमानौ धर्माधर्मौ कर्तारं विनाशयतः । अत एवैतत्सर्वं धर्माधर्मात्मकं सर्वे कर्मजातम् यथाकामं तत्तत्कालोचितम् अनियमेन नरः कुरुते कुर्यादित्यर्थः ॥ ३० ॥ अस्मिन्नर्थे न मे सन्देह इत्याह-ममेति । हे तात अनुकम्प्य ! “तातोऽनुकम्प्ये
अधर्मसंश्रितो धर्मो विनाशयति राघव । सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ॥ ३० ॥ मम चेदं मतं तात धर्मोऽयमिति राघव । धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ॥ ३१ ॥ अर्थेभ्यो हि विवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः । क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ ३२ ॥
अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः । व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ ३३ ॥ पितरि" इति रत्नमाला । इदं याथाकाम्येनाचरणं यदस्ति अयं धर्म इति मम मतं सिद्धान्त इत्यर्थः । एवं प्रथमं धर्म एवाप्रामाणिक इत्युक्तम् । पश्चात् कथञ्चित् प्रामाणिकत्वसम्भवेऽपि न तस्य प्राधान्यमित्युक्तम् । इदानीमप्राधान्येनापि धर्मस्तव न सम्भवति, मूलाभावादित्याहं धर्ममूलमित्यादिना । धर्मस्य मूलं कारणम् अर्थरूपम्, तदा प्राप्तकाले, राज्यमुत्सृजता त्वया छिन्नम् । मूलच्छेदात्तव कथं धर्म इत्यर्थः ॥ ३१ ॥ तदेव धर्ममूलत्व मर्थस्य प्रतिपादयति- अर्थेभ्य इति । ततस्ततः प्रजापालनाय प्रदेयषभागकर प्रदानादिकारणात् संवृत्तेभ्यः प्राप्तेभ्यः क्रमाद्विवृद्वेभ्यः अर्थेभ्वः सर्वाः कियाः यज्ञदानादिक्रियाः प्रवर्तन्ते । पर्वतेभ्य इत्युपमानेन मूलधनव्ययमकृत्वैवार्थमूलतया दानादिक्रियाः कार्या इत्युक्तम् ॥ ३२ ॥ व्यतिरेकमुखेनापि यथाकालमुभयमपि कर्तव्यमिति भावः ॥ २९ ॥ इदानीं धर्माधर्म गोरेकतरस्याश्रयणमनर्थपर्यवसायीत्याह-अधर्मसंश्रित इति । अधर्मसंश्रितो धर्मः अधर्मसहितो धर्मः, धर्मश्वाधर्मश्चेत्यर्थः । विनाशयति कर्तारमिति शेषः । नियमेन पृथक्पृथगनुष्ठीयमानी धर्माधर्मौ विनाशयतः, कर्तारमित्यर्थः । अत एवैतत्सर्व धर्माधर्मा त्मकं कर्मजातं यथाकामं तत्तत्कालोचितम् अनियमेन नरः कुरुते कुर्यादित्यर्थः ॥ ३० ॥ एतदेव मम धर्मत्वेन मतामित्याह-ममेति । इदं याथाकाम्पेनोभयाचरणं यत् अयमेव धर्म इति मम मतमित्यर्थः । इदानीमर्थस्य श्रेयोहेतुत्वं केवलं प्रतिपादयन् केवलं धर्म एवाचरणीय इति मन्वानेन त्वया तन्मूलमेव छिन्नमित्याह धर्ममूलमिति । तदा तस्मिन्नेव वनवासारम्भकाल एव धर्मस्य मूलं कारणम्, अर्थात्मकमिति शेषः ॥ ३१ ॥ तदेव धर्ममूलत्वमर्थस्य प्रतिपादयति-अर्वेभ्य इति
For Private And Personal Use Only
टी.यु.का. स० ८३
॥२५९॥