________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वर्तस्व ।। २७॥ एवं सामान्येन धर्म दूषितेऽपि सत्यवचनरूपधर्मविशेषस्य रामेण प्राधान्येनानुरोपात्तत्पृथक् दूषयति-अथेति । हे परंतप । सत्यवचन धर्मः किल । अथ चेदेवं चेत् , अनृतः त्वामभिषेक्ष्यामीत्युक्त्वा तदकरणेन सत्यत्वरहितः। अनृतमिति पाठे वदन्निति शेषः । त्वयि सकलकल्याण गुणाश्रये ज्येष्ठपुत्रे अकरुणः राज्यानं प्रति निष्कासनान्निर्दयः अतो बन्धयोग्यः पिता त्वया पितृवचनं कारिष्यामीति कृतप्रतिज्ञेन त्वया किन्न बद्धः। किं न नियमितः ? सर्वप्रजासन्निधौ राममभिषेक्ष्यामीत्युक्तं प्राथमिकं पितृवचनं परित्यज्य पाश्चात्त्यं वनगमनविषयं पितृवचनं कारष्यामीति कृतप्रतिज्ञेन ।
अथ चेत् सत्यवचनं धर्मः किल परन्तप । अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता ॥२८॥
यदि धर्मो भवेद्भूतो अधर्मो वा परन्तप । न स्म हत्वा मुनि वजी कुर्यादिज्यां शतक्रतुः ॥ २९ ॥ त्वया पालयता सत्यवचनमपि सम्यक न पालितमिति भावः ॥२८॥ धर्माधर्मयोः सद्भावेऽपि राज्ञा धोऽधर्मों वा नियमेन नानुष्ठातव्यः, किन्तु तत्तत्काल प्रयोजनानुगुण्येनोभावपि कर्तव्यावित्यत्र शिष्टाचारं प्रमाणयति-यदीति । भूतो अधर्मों वेत्यत्र वृत्तानुरोपाय सन्ध्यभावः । यदि धो भवेद्भुतः।यदि केवलं धर्म एवानुष्ठेयत्वेन प्राप्तो भवेत, तदा वजी शतक्रतुः मुनि विश्वरूपं हत्वा इज्यां न कुर्यात, किन्त्विज्यामेव कुर्यात् । अधर्मों वा केवलमधों वा यद्यनुष्ठेयः स्यात्, तदा शतकतुः वज्री मुनि हत्वा इज्यां न कुर्यात्, किंतु हननमेव कुर्यात् । क्षत्रधर्मनिष्ठेनेन्द्रेण धर्माधर्मयोरनुष्ठितत्वाद्राज्ञा ननु सर्वोऽपिन धर्मो भवति, किन्तु तत्रैकदेशस्सत्यं धर्मः तस्मान्मया वने वत्स्थामीति पितरि प्रतिज्ञातं सत्यवचनमनुष्ठयं तदर्थमेवमनुभूतमिति सत्याभिनिवेशिनं । राम प्रति धर्ममात्रसाधम्र्ये दूषितेऽपि सत्यवचनस्यापि धर्मता सार्थक्येन निराकरोति-अथ चेदिति । हे परंतप ! सत्यवचनं धर्मः किल । अथचेदेवं चेत् अनृतः वामभिषेक्ष्यामीत्युक्त्वा तदकरणेन सत्यरहितः त्वयि सद्गुणाश्रये ज्येष्ठपुत्रे त्वयि अकरुणः राज्यानं प्रति निष्कासनमकारुण्यम् अतो बन्धयोग्यः पिता त्वया । पितृवचनं करिष्यामीति कृतप्रतिज्ञेन किं न बद्धः किमर्थं न नियमितः, सर्वप्रजासनिधी राममभिषेक्ष्यामीत्युक्तं प्राथमिक पितृवचनं परित्यज्य पवादनगमन विषय पितृवचनं करिष्यामीति पालयता त्वया न सत्यवचनमपि सम्पपरिपालितमिति भावः । अनृतमिति पाठे-अनृतं त्वपि वदन्निति शेषः॥२८॥ धर्माधर्म योस्सद्भावे पि राज्ञा धर्मों वा अधर्मों वा न नियमेनानुष्ठातम्या, किन्तु तत्तत्कालपपोजनानुगुण्येनोभावपि कर्तव्यावित्पत्र शिष्टाचरणं प्रमाणपति-यदीति । यदि धर्मों भवेद् भूतः केवलं धर्म एवं अनुष्ठेयत्वेन प्राप्तो भवेत्तहि बची शतक्रतुः मुनि विश्वरूपं हत्वा इज्यो न कुर्यात् किन्तु हननमकृत्वा इज्यामेव कुर्यात् । अधर्मो वा केवलमधर्मों वा यद्यनुष्ठेयः स्यात् तार्ह शतक्रतुर्वची मुनिं हत्वा इज्यो न कुर्यात् किन्तु हननमेव कुर्यात, क्षत्रधर्मनिष्ठेनेन्द्रेणधर्माधर्मयोरुभयोरप्यनुष्ठितत्वाद्राज्ञा
For Private And Personal Use Only