SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भ २५८ www.kobatirth.org असद्भूतेन अग्रीन्द्रादिवदर्थवादवाक्येनागम्येन । धर्मेण अपूर्वाख्येन परं श्रेयः कथं प्राप्तुं शक्यम् ? न शक्यमित्यर्थः ॥ २४ ॥ उक्तमेवार्य पुनस्तकंण दृढीकरोति-यदीति । हे सतां मुख्य ! यदि सत् स्यात्, धर्माख्यं वस्त्विति शेषः । धार्मिकस्य तव असत् अनिष्टम किंचन न स्यात् । तर्कस्य विपर्यये पर्यवसानमाह त्वयेति । यत् यस्मात्कारणात् त्वया ईदृशं दुःसहं व्यसनं प्राप्तम्, तस्मात्सन्नोपपद्यते । असदेव भवतीत्यर्थः । कार्यानुपलम्भादपूर्वाख्य धर्मो न कल्प्य इत्यर्थः ॥ २५ ॥ नतु न कार्यानुपलम्भमात्रादर्थस्याभावो निश्चेतुं शक्यः, अतीन्द्रियोच्छेदापत्तेः । किन्तु सहकारिसम्पत्तौ सत्यां यदि सत् स्यात् सतां मुख्य नासत् स्यात्तव किंचन । त्वया यदीदृशं प्राप्तं तस्मात् सन्नोपपद्यते ॥ २५ ॥ अथवा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते । दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ॥ २६ ॥ बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे । धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ॥ २७ ॥ Acharya Shri Kailassagarsuri Gyanmandir कार्यानुपलम्भः कारणत्वाभावं साधयति । सहकारि च पौरुषम् । अतस्तदभावात्फलानुदय इत्यत आह- अथवेति । दुर्बलः बलरहितः निरपेक्षतया कार्याक्षमः । अत एव क्कीबः कातरः स्वतः कार्यकरणासमर्थः । धर्मः बलमनुवर्तते, कार्योंत्पादने पौरुषमपेक्षत इत्यर्थः । एवं चेदुर्बलो हृतमर्यादः स्वात न्त्र्येण फलप्रदत्वमर्यादाहीनो धर्मः प्राधान्येन न सेव्य इति मे मतिः ॥ २६ ॥ प्रधानभूतं बलमेवाश्रयणीयमित्याह - बलस्येति । पराक्रमे कार्यसाधने विषये, बलस्य धर्मः गुणभूतो यदि चेत् उपसर्जनभूतो यदि स्यात्, तदा यथेदानीं धर्मे वर्तसे, तथा धर्ममुत्सृज्य धर्मप्राधान्यमुत्सृज्य, धर्म इव बलेऽपि अप्रत्यक्षफलेन अव्यक्तेन स्वयम प्रत्यक्षेण असता सता असद्भूतेन धर्मेण परं श्रेयः कथं भानुं शक्यम्, न शक्यमित्यर्थः ॥ २४ ॥ तदेवासत्वं विपक्षे बाधकतर्क प्रदर्शनमुखेनापि दृढीकरोति-यदीत्यादिना । भो सतां मुख्य ! यदि सत्स्यात् धर्माख्यवस्त्विति शेषः । तर्हि धर्मिष्ठस्य तब असत् अनिष्टम् किञ्चन न स्यात् । तर्कस्य विपर्यये पर्यवसानमाह त्वयेति । यत् यस्मात्त्वया ईदृशं दुस्सहं व्यसनं प्राप्तम् तस्मानोपपद्यते, असदेव सदित्यर्थः ॥ २५ ॥ धर्मः पौरुषमाश्रित्यैव फलं प्रयच्छतीत्याशङ्कामनूद्य परिहरति अथवेतिं । दुर्बलः बलरहितः अत एव कीषः कातरः स्वतः कार्यकरणासमर्थ इति यावद । धर्मः बलमनुवर्तते, कार्योत्पादने पौरुषं प्रतीक्षत इत्यर्थः । एवं चेद् दुर्बलो हृतमर्यादः धर्मः हितमेव साधयतीत्येतादृशमर्यादारहितः न सेव्य इति मे मतिरिति योजना ॥ २६ ॥ उपसर्जनभूतं धर्ममुत्सृज्य प्रधानभूतं बलमेवाश्रयणीयमित्याह-चलस्येति । बलस्य धर्मो गुणभूतः उपसर्जनभूतो यदि स्पातदा ययेदानीं धर्मे वर्तसे तथा धर्ममुत्सृज्य बले बलसाध्ये पराक्रमे वर्तस्वेत्यन्वयः ॥ २७ ॥ For Private And Personal Use Only टी.पु.कॉ. स० ८३ ॥२५८॥
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy