________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
के श्रेयसि नियोक्ष्यतीत्यपि द्रष्टव्यम् । धर्माधर्मयोः क्रियारूपयोः क्षणिकत्वेन कालान्तरभाविफलजनकत्वासम्भवात् बाधितविषयो वेदा ग्रावपुवनादि । वाक्यवदुपचरितार्थक इति भावः ॥२२॥ कर्मणः क्षणध्वंसित्वेऽपि तदाराधिता देवतेव फलप्रदेत्यत्राह-अथवेति । विहितेन विधिना, देवतयेत्यर्थः । अयं जनः । हन्यते बाध्यते । परम् अन्यम् । हन्ति वा बाधते वा । एवं यदि तेन पापेन कर्मणा पापफलभूतदुःखेन विधिरेव आलिप्यते सम्बध्यते । सः प्रयोज्यकर्ता नालिप्यते । अस्य न्यायस्य पुण्यकर्मण्यपि तुल्यत्वात् सुखेनापि प्रयोज्यो न सम्बध्यते । यदि हि सत्काराधितः असत्कर्माप्रीतोवा ईश्वरः धर्माधर्मशब्दवाच्यः स्यात्, तर्हि स एव सुखदुःखभागी कारयिता स्यात् । न तु प्रयोज्य इति भावः॥२३॥ ननु यथा स्वतन्त्रो राजा लीलार्थ कामपि
अथवा विहितेनायं हन्यते हन्ति वा परम् । विधिरालिप्यते तेन न स पापेन कर्मणा ॥ २३ ॥
अदृष्टप्रतिकारेण त्वव्यक्तेनासता सता । कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन ॥२४॥ मर्यादा प्रवर्त्य तदनुवर्तिनमनुगृह्णाति तदतिलविनं निगृह्णाति च, तथेश्वरोऽपि स्वाज्ञारूपकर्मानुष्ठायिनमनुगृह्णाति । तदननुष्ठायिनं विपरीतानुष्ठायिनं च । निगृह्णातीति चेन्न । स हि कि स्वार्थमनुगृह्णाति उत परार्थम् ? नायः-अवाप्तसमस्तकामस्यावाप्तव्याभावात् । न द्वितीयः-कञ्चन विरिश्चनं कश्चनाकिश्चनं च वितन्वतस्तस्य पक्षपातनघण्यापत्तेः । तत्तत्कर्मानुगुणतया सृष्टेन पक्षपातादिप्रसक्तिरिति चेन्न । समीचीने कर्मण्यप्रवर्तयतस्तस्य सर्वज्ञस्य निर्दय ।। वापत्तेः । अनादिकर्मप्रवाहकृतपूर्वपूर्वकर्मानुगुण्येन पुनः पुनः सदसतोः कर्मणोः पुरुष प्रवर्तयतीति चेत्, ताई कस्यचित्रियमेन दुःखं कस्यचिनिय ।। मेन सुखं च स्यात् । नच तथा दृश्यते, अनियमदर्शनात् । तर्हि कर्मजन्योऽपूर्वरूपोऽतिशयः फलप्रदो धर्म इत्याशङ्कयाह-अदृष्टति । हे आरिविकर्शन! प्रतिक्रियते परप्रतिपत्तिर्जन्यत इति प्रतिकारो लिङ्गम् । अदृष्टप्रतिकारेण अदृष्टलिङ्गेन, अनुमानागम्येनेत्यर्थः । अव्यक्तेन अप्रत्यक्षेण । असता सता कर्मणः पाक्षिकतया फलप्रदत्वं मा भूत सदसत्कर्मकारयितृसाक्षिभूतं देवं दास्पतीत्याशङ्कामसूद्य परिहरति-अथवेति । विहितेन विधिना कारपित्रा देवेनेत्यर्थः। अयं जनः हन्यते बाध्यते । अपरं इन्ति वा बाधते वा तेन पापेन कर्मणा पापफल हुन विधिरेवालिप्यते सम्बध्यते न स प्रयोज्यकर्ता आलिप्यते अस्थ न्यायस्य पुण्यकर्मण्यपि तुल्यत्वात्सुखेनापि प्रयोज्यकर्ता न सम्बध्यत्ते, अतः कर्मस्वरूपस्याधर्मत्वं च न सम्भवतीत्यर्थः ॥ २३ ॥ कर्मजन्यातिशयरूपो धर्मः श्रेयस्साधन इति द्वितीयपक्षे स्वतन्त्र एव श्रेयो जनयति, उन परापेक्षयेति द्वेधा विकल्प्य आद्यं दूषयति-अदृष्टेति। प्रतिक्रियते प्रतिपाद्यते इति प्रतिकार फलम् अदृष्टप्रतिकारण
For Private And Personal Use Only