________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वा.रा.म. वित्यन्तेन । उपलभेदित्यत्र काकुः । धर्मेण धर्मानुष्ठानेन धर्म धर्मफलं सुखम् उपलभेत् । अधर्मतः अधर्मानुष्ठानेन अधर्मफलं दुःखम् उपलभेत्, टी.य.का. ॥२५॥ उपलभेतेति मन्यसे किमित्यर्थः । एवमनूद्य तत्र दूषणमाह-यदीति । येष्वधर्मः प्रतिष्ठितः, ये अधार्मिका इति यावत् । ते अधर्मेण अधर्मफलेन स०८३
यदि युज्येयुः युज्येरन् । नाधर्मरुचयो जनाः, धर्मरुचय इति यावत् । “दौ नौ प्रकृतमर्थ गमयतः" इति न्यायात् ।ते धर्मेण धर्मफलेन यदि युज्येरन्, तदा धर्मेण चरतामेषां जनानां धर्मः धर्मफलं सुखं भवेत् । चकारात् अधर्मेण चरतां दुःखं भवेदिति सिद्धम् । न चैवमित्याइ-यस्मादिति । अनेन
यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः । धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् ॥२०॥ यस्मादा विवर्धन्ते येष्वधर्मःप्रतिष्ठितः। क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थको ॥२०॥
वध्यन्ते पापकर्माणो यद्यधर्मेण राघव । वधकर्म हतोऽधर्मः स हतः कं वषिष्यति ॥ २२॥ च हिताहितप्राप्तिलक्षणकार्ययोरनियतत्वेन व्याप्त्यभावान ताभ्यां धर्माधर्मावनुमातुं शक्याविति व्याप्यत्वासिद्धिय॑भिचारो वा दर्शितः ॥ १९-२१॥ शब्दोऽपि न धर्माधर्मयोःप्रमाणमित्याह-वध्यन्त इति । हे राघव ! पापकर्माणः पापिनः। अधर्मेण कर्मरूपेण । वध्यन्ते यदि बाध्यन्ते चेत् । वधकर्म वधकर्मरूपोऽधर्मः। धर्मस्याप्युपलक्षणम् । इतः त्रिक्षणावस्थायित्वेन ध्वस्तो भवति । शब्दबुद्धिकर्मणां त्रिक्षणावस्थायित्वात् । हतः सः कं वधिष्यति इत्याशय व्याप्तिमादित्याह-धर्मेणोपलभेदित्यादिना । उपलभेदित्यत्र काकुरनुसन्धेया । धर्मेण धर्मानुष्ठानेन । धर्म धर्मफलं सुखमुपलभेद अधर्मतः अधर्मा नुष्ठानतः अधर्ममधर्मफलं दुःखमुपलमेदिति मन्यसे किमित्यर्थः । एवमस्तु किमित्याशय एतन्त्र सम्भवतीति दूपयितुं सार्धश्लोकेनोक्तमेवानकेन लोकेन
दूषयति-पद्यधर्मणेत्यादिना । येवधर्मः प्रतिष्ठितः ते अधर्मेण अधर्मफलेन युज्येयुर्यदि नाधर्मरुचयो जनाः अधर्मरुचयो न भवन्तीति नाधर्मरुचयः, धर्मिष्ठ Kजना इति यावत् । ते धर्मेण धर्मफलेन पुष्पेरन् यदि तथा धर्मेण चरतामेषां जनानां धर्मः धर्मफलं भवेत् सुखं भवेत् । चकारादधर्मेण चरता दुःखफलं भवेत ॥ १९ ॥ २०॥ न चैवं दृश्यत इत्याह-यस्मादिति । येष्वधर्मः प्रतिष्ठितः, तेषामित्यध्याहार्यम् । अर्था विवर्द्धन्ते धर्मशीलाच किश्यन्ते यस्मात्तस्मादेतो निर
॥२५७॥ र्थको, अव्यवस्थित कलावित्यर्थः । अनेन हिताहितप्राप्तिलक्षणकार्ययोरनियतत्वेन च्यात्यभावान्न ताभ्यां धर्माधर्मावनुमातुं शक्याविति भावः ॥२१॥ किश्च कर्म । स्वरूपावेव धर्माधर्मों कर्मजन्यातिशयो वेति विकल्प्यायं दूषयति-वध्यन्त इत्यादिश्लोकदयेन । हे राधव ! पापकर्माणः पापिष्ठाः अधर्मेण कर्मस्वरूपेण वध्यन्ते । यदि बाध्यन्ते चेत् वधकर्मस्वरूपाधर्मः हतः विक्षणावस्थायित्वाद्धतस्सन् । सः कर्मस्वरूपाधर्मः कं वधिष्पति स्वयं हतः सन कमपि न बधिष्यतीत्यर्थः ॥ २२ ॥
For Private And Personal Use Only