________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भू.
अघोऽपि निरर्थकः सन् रावणमर्थेभ्यो न निवारयितुं शक्नोतीत्यर्थः ॥१४॥ ननु कथमनयोरप्रामाणिकत्वमित्यपेक्षायां तत्र कि प्रत्यक्षं प्रमाणम्, उतानु टी.यु.का. मानम्, अथ शब्दो वा ? नाय इत्याह-भूतानामिति । स्थावराणां जङ्गमानां च भूतानां पदार्थानाम् यथा दर्शनं प्रत्यक्षत उपलम्भनम् अस्ति । तथा धर्मा Res
भूतानां स्थावराणां च जङ्गमानां च दर्शनम् । यथाऽस्ति न तथा धर्मस्तेन नास्तीति मे मतिः॥ १५॥
यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् । नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ॥ १६॥ धर्मयोः दर्शनं न अस्तीत्यनुषङ्गः । तेन अदर्शनेन धर्मोऽधर्मश्च नास्तीति मे मतिः निर्णयः॥१५॥ उक्तमेवार्थ प्रत्यक्षानुग्राहकेण तण ढयति-यथेति ।। यथैव स्थावरं व्यक्तं प्रत्यक्षत उपलब्धम् । जङ्गमं च तथाविधं व्यक्तं भवति । अयं धर्माधर्मरूपोऽर्थःतथा युक्तो न भवति, तथा प्रत्यक्षो न भवतीत्यर्थः। अनवरतधर्मसेविना रघुनाथेन 'अयुद्धधमानं समरे न हन्तुं त्वमिहाईसि ' इत्यादिना ब्रह्मास्त्रप्रयोगनिवारणेन क्रोधाविष्टस्सन् धर्माधर्मयोरर्थानर्थहेतुत्वनियमं निरा करोति-शुभे वर्त्मनीत्यादिना । पितृवाक्यपरिपालनरूपे शुभे वर्त्मनि धर्ममार्गे तिष्ठन्तं तत्रापि विजितेन्द्रियं हस्तप्राप्तराज्यपरित्याजकयोः कैकेयीदशरथयोरुपरि मनाकालुष्याभावेन जितेन्द्रियम् । 'नाहमर्थपरो देवि लोकमावस्तुमुत्सहे । विद्धि मामृपिभिस्तुल्य केवलं धर्ममास्थितम् ॥" इत्युक्तमकारेण केवलधर्मैकमवणं त्वां धर्मः अनर्थेभ्यस्त्रातुं न शक्नोतीति यत् ततोऽभ्युदयफलत्वेनानुमातुमशक्यत्वान्निरर्थकोऽनुपादेय इत्यर्थः । निष्प्रमाणको वा ॥ १४ ॥ ननु प्रामाणिकस्य धर्मस्य । कथमनुपादेयत्वमित्याशय तत्सद्भावे किमनुमानं प्रमाणम, उत प्रत्यक्षम् ? इति द्वेधा विकल्प्य धर्मोऽस्ति फलदर्शनादित्यनुमानपक्षं फलादर्शनानास्तीति पूर्व श्लोके निराकृत्येदानी प्रत्यक्ष निराकर्तुमाह-भूतानामिति । भूतत्वं सत्यत्वम् । भूताना सत्यानामित्यर्थः। स्थावराणां जमाना च दर्शनं प्रत्यक्षत उपलम्भनं यथाऽस्ति तथा धर्मस्य दर्शनं नास्ति यतः तेन कारणेन धर्मो नास्तीति मे मतिरिति सम्बन्धः ॥ १५ ॥ उक्तमेवार्थ सतर्क विशदयति-यथैवेति । स्थावरं यथैव व्यक्तं प्रत्यक्षत उपलब्ध जङ्गमं च तथाविध व्यक्तं भवति, अयं धर्मरूपोऽर्थः तथा युक्तो न भवति प्रत्यक्षो न भवतीत्यर्थः । तेन नास्तीति मे मतिरित्यनुषङ्गः ।
सा-धर्मों वर्तत इति प्रवादमानतस्ते सिद्धवकत्वकल्पमात्रं तस्योक्त्वा वस्तुतस्तु यतस्स फलानुमेयस्तदेव नास्तीति स एव नास्तीत्याह-भूतानामिति । स्थावराणा महीहादीनाम् । जमाना प्राणिनाम् एत दादीनां भूतानाम् । यथा प्रत्यक्षतो दर्शनं ययाऽस्तीति सन्तः । एतेन तथा धर्मः प्रात्यक्षिक इति स नास्त्येवेति चाकिमतं प्रसन्नयतो मे मतिः । यतु स्वयं सुखापरोक्षदर्शनं यथाऽस्तीति व्याश्याय "यत्तु यथा स्थाव रादीनां दर्शनात्तथा धर्मस्य दर्शनामावादमों नास्तीति " व्याचक्षते तन योग्यानुपलम्भस्यैवामावसाधकत्वाद्धर्मस्य पिशाचादिवदयोग्यत्वादिति नामोजिमडून व्याख्यातं तत्तु चार्वाकमतावलम्बनेन पूर्वपक्षप्रसनमेव तीर्थामिग्रेसमिति न समझसमिवावुसमुपशम्दाध्याहारेणाध्याहतस्यापि स्थावरपदार्यान्वयायोग्यत्वेन मौलदर्शनपदास्वारस्याचाप्ययुक्तम | न तथा दर्शनमित्येतावता धर्मस्ते त्वदिषये न नास्तीति मे मतिः । तेन पिशित लोचनानपगमेन धर्मो नास्तीति मे मतिः । पूर्वपक्षमात्रं प्रसजितम् । वस्तुतस्तु कालसहाये व्यक्तो भवति धर्म इति भावः ॥ १५॥
For Private And Personal Use Only