________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥२५५।।
www.kobatirth.org
स इति । होमशोणितं शोणितहोमः ॥ २८ ॥ नयानयज्ञाः शास्त्रीयाशास्त्रीयविदः ॥ २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटा ख्याने युद्धकाण्डव्याख्याने व्यशीतितमः सर्गः ॥ ८२ ॥
सोऽचि पिनो ददृशे होमशोणिततर्पितः । सन्ध्यागत इवादित्यः सुतीत्रोऽग्निः समुत्थितः ॥ २८ ॥ अथेन्द्रजि द्राक्षसभूत तु जुहाव हव्यं विधिना विधानवित् । दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः ॥ २९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे यशीतितमः सर्गः ॥ ८२ ॥ राघवश्वापि विपुलं तं राक्षसवनौकसाम् । श्रुत्वा सङ्ग्रामनिर्घोषं जाम्बवन्तमुवाच ह ॥ १ ॥ सौम्य नूनं हनुमता क्रियते कर्म दुष्करम् । श्रूयते हि यथा भीमः सुमहानायुधस्वनः ॥ २ ॥ तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः । क्षिप्रमृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः ॥ ३ ॥ ऋक्षराजस्तथोक्तस्तु स्वेनानीकेन संवृतः । आगच्छत् पश्चिमं द्वारं हनुमान् यत्र वानरः ॥ ४ ॥ अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि । वानरैः कृतसङ्ग्रामैः श्वसद्भिरभिसंवृतम् ॥ ५ ॥ दृष्ट्वा पथि हनूमांश्च तदृक्षबलमुद्यतम् । नीलमेघनिभं भीमं सन्निवार्य न्यवर्तत ॥ ६ ॥ स तेन हरिसैन्येन सन्निकर्ष महायशाः । शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ॥ ७ ॥ समरे युद्धयमानानामस्माकं प्रेक्षतां पुरः । जघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः ॥ ८ ॥ उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिन्दम । तदहं भवतो वृत्तं विज्ञापयितुमागतः ॥ ९ ॥
Acharya Shri Kalassagarsuri Gyanmandir
अथ मायासीतावधमूर्च्छितरामसान्त्वनं व्यशीतितमे - राघवश्वापीत्यादि । जाम्बवन्तं यदृच्छया सन्निहितम् ॥ १ ॥ सौम्येति । यथा यतः ॥ २-६॥ रामानु० अथेति । वानरैः कृतसामेरिति पाठः ॥ ५ ॥ स तेनेति । हरिसैन्येन सह । सन्निकर्षम्, रामस्येति शेषः ॥ ७-११ ॥ होमशोणिततर्पितः शोणितहोमेन तर्पित इत्यर्थः ॥ २८ ॥ २९ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां द्यशीतितमः सर्गः ॥ ८२ ॥ १४ ॥ अथेति । श्वसद्भिः सीताविपत्तिस्मृतिजदुःखान्निश्वसद्भिरित्यर्थः ॥ ५ ॥ उद्यतं युद्धायोद्युक्तम् ॥ ६ ॥ स इति । हरिसैन्येन सह
For Private And Personal Use Only
टी.यु.कॉ. स० ८३
॥२५५॥