________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
999999999
शूलरशनिभिरिति ।अशनेरायुधत्वं शक्तिविशेषात् ॥१९॥२०॥ सनिवार्येत्यादि ।न साध्यं साधयितुमयोग्यम्, प्रयोजनाभावादिति भावः॥२१॥ तदेवाहवानरैस्तैर्महावीर्ये?ररूपा निशाचराः।वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणाजिरे॥१६॥ स्वसैन्यमभिवीक्ष्याथ वानरा र्दितमिन्द्रजित् । प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ ॥ १७॥ स शरौघानवसृजन स्वसैन्येनाभिसंवृतः। जघान कपिशार्दूलान स बहून् दृष्टविक्रमः॥१८॥ शूलैरशनिभिः खङ्गैः पट्टिशैः कूटमुद्गरैः । ते चाप्यनुचरास्तस्य वानरान् जघ्नुरोजसा ॥ १९ ॥ सस्कन्धविटपैःसालैः शिलाभिश्च महाबलः । हनुमान् कदनं चक्रे रक्षसां भीम कर्मणाम् ॥ २०॥ स निवार्य परानीकमब्रवीत्तान् वनौकसः । हनुमान सन्निवर्तध्वं न नः साध्यमिदं बलम् ॥२१॥ त्यक्त्वा प्राणान विवेष्टन्तो रामप्रियचिकीर्षवः । यन्निमित्तं हि युद्धयामो हता सा जनकात्मजा ॥ २२ ॥ इममर्थ हि विज्ञाप्य रामं सुग्रीवमेव च । तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम् ॥ २३ ॥ इत्युक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान् । शनैः शनैरसंत्रस्तःसबलः सन्यवर्तत ॥२४॥ ततःप्रेक्ष्य हनूमन्तं वजन्तं यत्र राघवः। स होतुकामो दुष्टात्मा गतश्चैत्यनिकुम्भिलाम् ॥२५॥ निकुम्भिलामधिष्ठाय पावकं जुहवेन्द्रजित् ॥२६॥ यज्ञभूम्यां तु विधिवत् पावकस्तेन रक्षसा । हूयमानः प्रजज्वाल मांसशोणितभुक्तदा॥२७॥ त्यक्त्वेति ॥२२-२४॥ चैत्यनिकुम्भिला चैत्ये विद्यमान निकुम्भिलाख्यदेवतायतनमित्यर्थः ॥२५॥ निकुम्भिलामित्यर्घम् । जुड़व जुहाव ॥२६॥२७॥ चोद्यताः, गृहीत्वेति शेषः । गृहीत्वा युद्धार्थमुद्यता बभूवुरित्यर्थः । इन्द्रजितं क्षिपन्ति आक्षिपन्ति स्म । तिरस्कृतं चकुरिति यावत् ॥ १५-२०॥ परानीक राक्षससेनाम प्राणांस्त्यक्त्वाप्राणस्नेहमपि त्यक्त्वा विचेष्टन्तस्सन्तो यन्निमित्तं युद्धयामः सा हतेति व्यर्थोऽयं श्रम इति भावः । तो रामसुग्रीवो । प्रतिविधास्ते प्रतिक्रियानुष्ठाने नियोक्ष्यते तत्करियामहे ॥ २१-२५ ॥ निकुम्भिलामिति । जुहव जुहाव ॥ दशम्या पूर्वाहे निकुम्भिलागमनम् ॥२५॥ होमशोणितभुक होमार्थमाहुतित्वेन प्रक्षिप्तशोणितभुक् ॥ २७ ॥
For Private And Personal Use Only