________________
Shri Mahavir Jain Aradhana Kendra
प्रा.रा.भू. ॥२५४॥
www.kobatirth.org
स०-धरणीमिया व्यर्थम् इन्द्रजिदननरूपार्थरहितं यथा भवति तथा पुनः किं करोतीति व्यथां प्राप्ता भृशं निपतन्या तथा शिलया च राक्षसा निपतन्या शिलया राक्षसा मथिता इत्यन्वयं मन्यते ॥ ११ ॥
| आत्मनेपदमार्षम् ॥ ३ ॥ पृष्ठत इति । अनुत्रजध्वम् अनुव्रजत । पदव्यत्यय आर्षः ॥ ४-१० ॥ तमिति । व्यर्थमुद्यता व्यर्थे प्रयुक्ता ॥ ११-१३ ॥ पृष्ठतोऽनुवध्वं मामग्रतो यान्तमाहवे । शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ॥४॥ एवमुक्ताः सुहृष्टा वायुपुत्रेण वानराः । शैलशृङ्गाण्यगांश्चैव जगृहुर्हृष्टमानसाः ॥ ५ ॥ अभिपेतुश्च गर्जन्तो राक्षसान् वानरर्षभाः । परिवार्य हनूमन्तमन्वयुश्च महाहवे ॥ ६ ॥ स तैर्वानरमुख्यैश्च हनुमान सर्वतो वृतः । हुताशन इवार्चिष्मान दहच्छत्रवाहिनीम् ॥ ७ ॥ स राक्षसानां कदनं चकार सुमहाकपिः । वृतो वानरसैन्येन कालान्तकयमोपमः ॥ ८ ॥ स तु कोपेन चाविष्टः शोकेन च महाकपिः । हनुमान रावणिरथेऽपातयन्महतीं शिलाम् ॥ ९ ॥ तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा । विधेयाश्वसमायुक्तः सुदूरमपवाहितः ॥ १० ॥ तमिन्द्रजितमप्राप्य रथस्थं सहसारथिम् । विवेश धरणीं भित्त्वा सा शिला व्यर्थमुद्यता ॥ ११ ॥ पातितायां शिलायां तु रक्षसां व्यथिता चमूः । निपतन्त्या च शिलया राक्षसा मथिता भृशम् ॥ १२ ॥ तमभ्यधावञ्छतशो नदन्तः काननौकसः ॥ १३ ॥ ते द्रुमांश्च महावीर्या गिरिशृङ्गाणि चोद्यताः । क्षिपन्तीन्द्रजितः सङ्ख्ये वानरा भीमविक्रमाः ॥ १४ ॥ वृक्षशैलमहावर्ष विसृजन्तः प्लवङ्गमाः । शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वरैः ॥ १५ ॥
ते दुमानिति । इन्द्रजितः इन्द्रजितं प्रति ॥ १४-१८ ॥
विधेयाश्चैः सारथ्यधीनाश्वैः समायुक्तः ॥ १० ॥ तमप्राप्य धरणिं विवेश अत एव सा शिला व्यर्थमुद्यता उद्युक्ता, अभवदिति शेषः ॥ ११-१३ ॥ गिरिशृङ्गाणि तामेव या विवेश सा शिला पुनरुयता उपययाता । एवं शिलाया पातितायां सत्यां रक्षां चमूः सेना व्यथिता अन्तगेता चोथिता मचिता इत्यन्वयः । एके तु व्यर्थमुक्ता सा शिलाऽभून् धरणीं चाविनेश । हनुमता शिलायां पातितायां रक्षसां चमूम्बंधिता । तथा
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
टी.यु.का.
स० ८२
॥२५४॥