________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सीता रथे स्थापितवतोऽस्य किं समर्थितं को वाऽभिप्राय इति चिन्तयन्त्रब्रवीत् । इतिर्वचनचिन्तनयोः साधारणः ॥ १३ ॥ सह तैरित्यर्षम् । हनुमानिति 31 शेषः ॥ १४॥ मूच्छितः व्याप्तः ॥१५॥ पश्यतां तेषाम् । अनादरे पष्ठी । मायया परमोहनशक्त्या ॥ १६-१८॥ केशपक्षे केशसमूहे । “पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे" इत्यमरः । परामृशः अस्पृशः॥ १९॥ घिगित्यादिसार्घश्लोकः एकान्वयः । ईदृशी जुगुप्सितेत्यर्थः। नृशंस निर्दय !
सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् ॥१४॥ तद्वानरवलं दृष्ट्वा रावणिः क्रोधमूञ्छितः। कृत्वा विकोश निस्त्रिंशं मूर्ध्नि । सीतां परामृशत् ॥१५॥ तां स्त्रियं पश्यतां तेषां ताडयामास रावणिः । क्रोशन्ती राम रामेति मायया योजित रये ॥ १६॥ गृहीतमूर्धां दृष्ट्वा हनुमान् दैन्यमागतः । शोकजं वारि नेत्राभ्यामसृजन्मारुतात्मजः ॥ १७॥ तां दृष्ट्वा चारुसर्वाङ्गी रामस्य महिषीं प्रियाम् । अब्रवीत् परुषं वाक्यं क्रोधाद्रक्षोधिपात्मजम् ॥ १८॥ दुरात्मनात्म नाशाय केशपक्षे परामृशः । ब्रह्मर्षीगां कुले जातो राक्षसी योनिमाश्रितः ॥ १९॥धिक त्वां पापसमाचारं यस्य ते मतिरीदृशी ॥२०॥ नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रमाअनार्यस्येदृशं कर्म घृणा ते नास्ति निघृण ॥ २१ ॥ च्युता गृहाच राज्याच्च रामहस्ताच्च मैथिली । किं तवैषाऽपराद्धा हि यदेनां हन्तुमिच्छसि ॥२२॥ सीतां च हत्वा
न चिरं जीविष्यसि कथंचन । वधाई कर्मणाऽनेन मम हस्तगतो ह्यसि ॥ २३ ॥ अनार्य असजन ! दुर्वृत्त दुराचार । क्षुद्र अल्पबुद्दे । पापः अधर्म्यः पराक्रमो यस्य स पापपराक्रमः । उक्तमनार्यत्वं कार्यतो दर्शयति-अनार्यस्येति ।। ईदृशं जुगुप्सितं कर्म अनार्यस्यैव भवति । हे निघृण निर्दय । ते घृणा जुगुप्सा नास्ति । "जुगुप्सा करुणा घृणा" इत्यमरः॥२०॥२१॥ अपराधिषु । घृणा न कर्तव्या अत एव एनां हन्मीत्याशङ्कयापराधलेशोप्यस्यां नास्तीत्याह-च्युतेति । गृहात स्वसदनात् । चकारात् परिचारकेभ्यश्च । अनेन । बन्धुमुखादपराधकरणं नास्तीत्युक्तम् । राज्यात् राज्योपकरणाच। अनेन सेनामुखेन नापराध इत्युक्तम् । रामहस्तात् रक्षकहस्ताच । तन्मुखादप्यपराध
एकान्वयः । सीता रथे स्थापितवतोऽस्य किं समर्थितम को वा अभिप्राय इति चिन्तयन्त्रब्रवीदिति योजना ॥१३-१८॥ दुरात्मन्निति । केशपक्षे केशसमूहे ॥१९॥ M॥२०॥ ईशं जुगुप्तितम् ॥ २१ ॥ २२ ॥ हे वधाई ! अनेन कर्मणा न चिरं जीविष्यसि । हि यतो मम हस्तगतोऽसि ॥२३॥
For Private And Personal Use Only