________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥२५१॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
घनान्धकार इति । घनान्धकारे घनकालिमवति ॥ २७-२९ ॥ रामानु० धनान्धकारे धनयुक्तान्धकारवनिविडे ॥ २७ ॥ पतगाः पक्षिणो भूत्वा । तथा
घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम् । स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ॥ २७ ॥ स रामं सूर्यसङ्काशैः शरैर्दत्तवरो भृशम्। विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ॥ २८ ॥ तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वती । हेमपुङ्गान्नरव्याघ्रौ तिग्मान् मुमुचतुः शरान् ॥ २९ ॥ अन्तरिक्षे समासाद्य रावणिं कङ्कपचिणः । निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः ॥ ३० ॥ अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ । तानिषून पततो भल्लैरनेकैर्निच कृन्ततुः ॥ ३१ ॥ यतो हि ददृशाते तो शरान्निपततः शितान् । ततस्तु तौ दाशरथी ससृजातेऽस्त्रमुत्तमम् ॥ ३२ ॥ रावणस्तु दिशः सर्वा रथेनातिरथः पतन् । विव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः ॥ ३३ ॥ तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहितैः । बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ॥ ३४ ॥ नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान् । न चान्यद्विदितं किंचित् सूर्यस्येवाभ्रसम्प्लवे ॥ ३५ ॥ तेन विद्धाश्च हरयो निहताश्च गतासवः । बभूवुः शतशस्तत्र पतिता धरणीतले ॥ ३६ ॥ लक्ष्मणस्तु सुसंक्रुद्धो भ्रातरं वाक्यमब्रवीत् । ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ॥ ३७ ॥ तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् ॥ ३८ ॥ नैकस्य हेतो रक्षांसि पृथिव्यां हन्तु मर्हसि । अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् । पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ॥ ३९ ॥ अस्यैव तु वधे यत्नं करिष्यावो महाबल । आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ॥ ४० ॥
वेगवन्तः इत्यर्थः ॥ ३०-३३ ॥ तेनेति । सुसंहितैः सुष्ठु निर्मितेः ॥ ३४ ॥ नास्येति । अभ्रसम्पुवे मेघावरणे ॥ ३५-३८ ॥ नैकस्येत्यादि । प्रच्छन्नं युद्धभीत्या प्रच्छन्नम् । पठायन्तं पलायमानम् ॥ ३९॥ अस्यैव त्विति । आदेक्ष्यावः प्रयोक्ष्यावः । अत्रान् अस्राणि । लिङ्गव्यत्यय आर्षः ॥ ४० ॥४१॥ घनान्धकारे सान्द्रतिमिरे । शरवर्षमिव उदकवर्षमिव ॥१७- २९॥ अन्तरिक्ष इति । पतगाः शराः ॥३०-३५ ॥ अखान् अस्त्राणि । आदेक्ष्यावः प्रयोक्ष्यावः ॥४०॥४१॥
For Private And Personal Use Only
टी. यु. कॉ
स० ८०
॥२५१॥