SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ She Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsuri Gyanmandir www.kobatirth.org अद्य निर्वानरामिति । पितुरित्यध्याहारः । पितुः परमप्रीतिं परमप्रीति प्रति, पितुः प्रीतिमुद्दिश्येत्यर्थः । अद्य सलक्ष्मणं रामं हत्वा उीं निर्वाना करिष्य इति संबन्धः ॥१७-१९॥ स ददशैति । नागौ त्रिशिरसाविवेति दृष्टान्तेन रामलक्ष्मणयोर्महापुरुषलक्षणपृथुलोन्नतभुजशिरस्कत्वं घोत्यते । अद्य निर्वानरामुर्वी हत्वा रामं सलक्ष्मणम् । करिष्ये परमप्रीतिमित्युक्त्वाऽन्तरधीयत॥ १८॥ आपपाताथ संक्रुद्धो दशग्रीवेण चोदितः । तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपु रणे ॥ १९॥ स ददर्श महावीर्यो नागौ त्रिशिरसा विव । सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ॥२०॥ इमौ ताविति सञ्चिन्त्य सज्यं कृत्वा च कार्मुकम् । सन्त तानेषुधाराभिः पर्जन्य इव वृष्टिमान् ॥२१॥ स तु वैहायसं प्राप्य सरयो रामलक्ष्मणौ । अचक्षुर्विषये तिष्ठन विव्याध निशितैः शरैः ॥२२॥ तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ। धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ॥२३॥ प्रच्छादयन्तौगगनं शरजालैर्महाबलौ । तमस्त्रैः सूर्यसङ्काशैर्नेव पस्टशतुः शरैः॥२४॥ स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः। दिशश्चान्तर्दधे श्रीमानीहारतमसावृताः॥ २५॥ नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः। शश्रुवे चरतस्तस्य न च रूपं प्रकाशते ॥ २६ ॥ सृजन्तौ स्रक्ष्यन्तौ । सकलराक्षसक्षयकारिणावित्यर्थः ॥२०॥ इमौ ताविति । सन्ततान ववर्ष ॥२१॥वैहायसं विहायसा गमनम् ॥२२-२४॥ स हीति । नभः प्रच्छादयन् । हेतौ शतप्रत्ययः । अन्तर्धापयामासेत्यर्थः। धूमान्धकारमिति नीहारतमसावृता इति च पूर्वमेवोत्पातकलुषत्वमुच्यते ॥२५॥२६॥ लोकद्वयमेकं वाक्यम् । तस्य प्रातीतिकार्थः स्पष्टः । रणे सलक्ष्मणं रामं हत्वा गत्वा वने यो मिथ्या प्रत्राजितौ रामलक्ष्मणी, विनेति शेषः । आहवे हत्वा, वानरानिति शेषः । उर्षी निर्वानरी कृत्वा रावणाय जयं प्रदास्थामीति एवं पित्रे पीर्ति करिष्यामि चेत्युक्त्वा अन्तरधीयतेति सम्बन्धः ॥ १७-१९॥ सूजन्तो नयन्ती ॥ २०॥ सन्ततानेधाराभिः निरन्तरवाणधारामिः ॥२१॥ हायसं विहायस्सम्बन्धिमार्गम् ॥ २२-२४ ॥ स दीति । नभः प्रच्छादयन्निति हेतो शतप्रत्ययः । दिशम् अन्तर्दधे अन्तर्धापयामास ॥२५॥२६॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy