SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा.भू. ॥२५॥ जातीयः। 'सुन्दस्तेजनकः शरः" इत्यमरः। शस्त्राणि तोमराणि । सतोमरेरित्यनुवादात् । शस्त्राणि शरपत्राणि च परिस्तरणान्यभवन् विभीतकाःटो .यु.का. समिधः इध्मानि अभवन् । वासांसि ऋत्विगुणीपवासांसि । लोहितान्यभवन् । कार्णायसं खुवमासीत् ॥७॥ ८॥ सकृदेवेति । विजयं दर्शयन्ति विजय सकृदेव समिद्धस्य विधूमस्य महार्चिषः । बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ॥९॥ प्रदक्षिणावर्तशिख स्तप्तहाटकसन्निभः । हविस्तत् प्रतिजग्राह पावकः स्वयमुत्थितः ॥ १०॥ हुत्वाऽग्निं तर्पयित्वा च देवदानवराक्ष सान् । आरुरोह स्थश्रेष्ठमन्तर्धानगतं शुभम् ॥११॥ स वाजिभिश्चतुर्भिश्च बाणैश्च निशितैर्युतः। आरोपितमहा चापःशुशुभे स्यन्दनोत्तमः ॥ १२॥ जाज्वल्यमानो वपुषा तपनीयपरिच्छदः । मृगैश्चन्द्रार्धचन्द्रश्च स रथः समलंकृतः ॥ १३॥ जाम्बूनदमहाकम्बुर्दीप्तपावकसन्निभः । बभूवेन्द्रजितः केतुर्वेडूर्यसमलंकृतः ॥१४॥ तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः। स बभूव दुराधर्षों रावणिः सुमहाबलः ॥ १५॥ सोऽभिनिर्याय नगरा दिन्द्रजित् समितिञ्जयः । हुत्वाऽनि राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ॥ १६ ॥ अद्य हत्वा रणे यौ तौ मिथ्या प्रवा जितौ वने। जयं पित्रे प्रदास्यामि रावणाय रणार्जितम् ॥ १७ ॥ सूचकानि ॥९॥१०॥ हुत्वेति । अन्तर्धानगतम् अन्तर्धानशक्तियुक्तम् ॥ ११॥ १२ ॥ जाज्वल्यमान इति । मृगैः मृगाकारप्रतिमाभिः । चन्द्रः । चन्द्राकारः। अर्धचन्द्रेः रचनाविशेषैः॥ १३॥ जाम्बूनदमहाकम्बुः सौवर्णमहावलययुक्तः । “कम्बुर्ना वलये शङ्के" इत्यमरः ॥ १४॥ १५॥ राक्षसः | निऋतिदेवताके । अन्तर्षानगतः अन्तर्धानशक्तिं प्राप्तः अतः इत्युक्त्वाऽन्तरधीयतेत्यनेन न विरोधः ॥ १६॥ अद्य हवेत्यादिचोकद्वयमकान्वयम् I ॥२५॥ शरहोमे विजयं दर्शयन्ति, अन्यत्र युद्ध विजयो नास्ति तथापि जीवतः पुनर्लाप्रवेश एव जय इत्यवगन्तव्यम् ॥९॥१०॥ अन्तर्धानगतम् अन्तर्धानशक्तियुक्तम् Mu१॥१२॥ मृगैःप्रतिमारूपैः चन्द्रार्धचन्द्रेश्व चन्द्रार्धचन्द्राकाररचनाविशेषैः॥१३॥जाम्बूनदमहाकम्युः सौवर्णवलयसंयुक्ता"कम्बुर्ना बलये शङ्ख"इत्यमरः॥१४॥१५॥ सोऽमिनिर्याय राक्षसैःमन्वे: नितिदेवताकैः मन्त्रैः । अन्तर्धानगतः अन्तर्धान शक्ति प्राप्तः अतः इत्युक्त्वाऽन्तरधीयतेत्युपरितनेन न विरोधः ॥१५॥ अद्य हत्वेत्यादि For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy