________________
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
पदे संभूयेकार्थमेवाचक्षाते । पक्षद्वयेऽपि मकराक्षवधेन दशममहः समाप्तम् ॥४०॥ इति श्रीगो श्रीरामा० रत्न युद्ध एकोनाशीतितमः सर्गः ॥७९॥ अथेन्द्रजिनिगमोऽशीतितमे-मकराक्षमित्यादि । आविष्टः, अभूदिति शेषः ॥ १-३ ॥ त्वमिति । जयसि अजेपीः। पुनःशब्दस्त्वर्थे । मानुषो पुनः
मकराक्षं हतं श्रुत्वा रावणः समितिञ्जयः। क्रोधेन महताऽऽविष्टो दन्तान कटकटापयन् ॥ १॥ कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन् । आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम् ॥२॥ जहि वीर महावीर्यो भ्रातरौ राम लक्ष्मणौ। अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः॥३॥ त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे। किं पुन र्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे॥४॥ तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः। यज्ञभूमौ स विधिवत् पावकं जुह वेन्द्रजित् ॥५॥ जुह्वतश्चापि तत्रानि रक्तोष्णीषधराः स्त्रियः।आजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः ॥६॥ शस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः । लोहितानि च वासांसि खुवं कार्णायसं तथा ॥ ७॥ सर्वतोऽग्निं
समास्तीर्य शरपत्रैः सतोमरैः । छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः॥८॥ मानुषो तु । संयुगे दृष्ट्वाऽपि न वषिष्यसि किम् ? दर्शनमात्रेण वषिष्यस्येवेत्यर्थः॥१॥ तथोक्त इति । जुड़व जुहाव । वृद्धयभाव आपः ॥५॥ जुह्वत इति भावलक्षणे षष्ठी । रक्तोष्णीषधराः ऋत्विग्धारणाथै रक्तोष्णीषाण्यानयन्त्य इत्यर्थः । “लोहितोष्णीषा ऋत्विजः प्रचरन्ति" इति श्रुतेः । सम्भ्रान्ताः त्वरावत्यः। समयातिकमो मा भूदिति त्वरया उष्णीषाण्यानिन्युरित्यर्थः ॥६॥ शस्त्राणि, अभवन्निति शेषः । शरपत्राणि गुन्द्रपत्राणि । गुन्द्रश्च काश वसुधायाम् तिष्ठत्सव मूल जमाहेति सम्बन्धः ॥ दशम्या मकराक्षवधः ॥ ३१-४०॥ इति श्रीमहेन्चरतीर्थविरचिताया श्रीरामायणतत्ववीपिकाख्यायो युद्धकाण्ड व्याख्यायाम एकोनाशीतितमः सर्गः ॥ ७९ ॥१॥२॥ जहि वीरेत्यादिश्लोकद्वयस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु-इन्द्र जितवतो मम मानुषजया को वा गरीयानिति गर्विष्ठमिन्द्रजितं प्रत्याह-जहि वीरेत्यादिलोकद्वयेन । बलाधिकस्त्वं संयुगे अदृश्यो हल्यमानो वा सर्वथा इन्द्रं दृष्टा जयसि तथापि मानुचावपि राम लक्ष्मणो संयुगे बधिष्यसि किम् ? न बधिष्यसि अतः तो जहि त्यज । " ओहाक्त्यागे" इति धातोः । तयोरसाद्धयत्वात्तजयविषयाशा त्यजेति भावः ॥४॥ तथोक्त इति । जुहव जुहाव, वृडचभाव आर्षः ॥५॥६॥ शखाणीति । शवादीन्यभवनिति शेषः ॥ ७॥ ८॥
For Private And Personal Use Only