________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्त्रैरिति । महाहवे निमित्ते । येन वा अन्येनायुधेनाभ्यस्तं तेनैव युधि वर्तताम् भवानिति शेषः ॥ १६ ॥ उत्तरोत्तरवादिनम्, बहुप्रलापिनमित्यर्थः ॥ १७ ॥ युद्धेन विना प्रहारेण विना ॥ १८ ॥ १९ ॥ स्वाशिताः सुष्ठु आशितवन्तः ॥ २० - २३ ॥ ज्यातलयोः शब्दः ज्यातठयोः संघर्षजः शब्दः अद्य मद्वाणवेगेन प्रेतराङ्गिषयं गतः । ये त्वया निहता वीराः सह तैश्च समेष्यसि ॥ १४ ॥ बहुनाऽत्र किमुक्तेन शृणु राम वचो मम । पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे ॥ १५ ॥ अस्त्रैर्वा गदया वापि बाहुभ्यां वा महाहवे । अभ्यस्तं येन वा राम तेनैव युधि वर्तताम् ॥ १६ ॥ मुकराक्षवचः श्रुत्वा रामो दशरथात्मजः । अब्रवीत् प्रहसन् वाक्यमुत्तरोत्तरवादिनम् ॥ १७ ॥ कत्थसे किं वृथा रक्षो बहून्यसदृशानि तु । न रणे शक्यते जेतुं विना युद्धेन वाग्बलात् ॥ १८ ॥ चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः । त्रिशिरा दूषणश्चैव दण्डके निहता मया ॥ १९ ॥ स्वाशितास्तव मांसेन गृध्रगोमायुवायसाः । भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुराः ॥ २० ॥ रावणैवमुक्तस्तु खरपुत्रो निशाचरः । बाणधानमुचत्तस्मै राघवाय रणाजिरे ॥ २१ ॥ तान् शरान् शरवर्षेण रामश्चिच्छेद नैकधा । निपेतुर्भुवि ते च्छिन्ना रुक्मपुङ्खाः सहस्रशः ॥ २२ ॥ तद्युद्धमभवत्तत्र समेत्यान्योन्यमौजसा । रक्षसः खरपुत्रस्य सूनोदशरथस्य च ॥ २३ ॥ जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा । धनुर्मुक्तः स्वनोत्कृष्टः श्रयते च रणाजिरे ॥ २४ ॥ देवदानवगन्धर्वाः किन्नराश्च महोरगाः । अन्तरिक्षगुताः सर्वे द्रष्टुकामास्तदद्भुतम् ॥ २५ ॥ विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते परम् । कृतप्रतिकृतान्योन्यं कुरुतां तौ रणाजिरे ॥ २६ ॥ स्वनोत्कृष्टः स्वनेषूत्कृष्टः ॥ २४ ॥ २९ ॥ विद्धं वेधनम् । वर्धते अवर्धत । कृतप्रतिकृतान्योन्यं कृतस्य प्रतिकृतं ययोस्तौ तादृशावन्योन्यं यस्मिन् रिति शेषः । एतादृशस्त्वं दिष्टया मद्भाग्येन दर्शनं प्राप्तोऽसि अतो मद्भाग्यं किं वर्ण्यत इति भावः ॥ १३॥ अद्येति । त्वया बाणवेगेन अद्य प्रेतराद्विषयं गतो भवेय मिति शेषः । अतो मत मत्सकाशात ये शूराः सुमीवादयः अनिहताः तैस्सह समेष्यसीति सम्बन्धः ॥ १४ ॥ १५ ॥ अप्रेरिति । महाहवे निमित्ते येन वा येन केन वा अभ्यस्तं तेनैव युधि वर्तताम् भवानिति शेषः ॥ १६ ॥ उत्तरोत्तरवादिनं बहुमलापिनमित्यर्थः ॥ १७-१९ ॥ स्वाशिता इति । सुष्ठाशितवन्तः ॥। २०-२२ ॥ राक्षस इत्यादिसार्धमेकं वाक्यम् । धनुर्मुक्तस्वनः धतुर्गुणस्वनः ॥ २३-२५ ॥ विद्धं वेधनं वर्धते अवर्धत । कृतमतिकृतान्योन्यं कृतस्य प्रतिकृतं
२१९
For Private And Personal Use Only