SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बाग.. २४८ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काशिन इति भिन्नं वाक्यम् । जितं जयः तेन काशन्त इति तथोक्ता जितकाशिनः बभ्रुवुरिति शेषः । अन्यथा द्वितीयराक्षस पदवैयर्थ्यं स्यात् ॥७-१०॥ रामानु० तिष्ठेति । द्वन्द्वयुद्धं ददामि त इति पाठः ॥ १० ॥ यत्तदेति । स्वकर्मस्थं वधकर्मस्थम् । यथा पिता हतस्तथा वध्यमित्यर्थः । यद्रा क्षात्रधर्मकर्मानुतिष्ठन्त । वारितान राक्षसान् दृष्ट्वा मकराक्षो निशाचरः । क्रोधानलसमाविष्टो वचनं चेदमब्रवीत् ॥ ९ ॥ तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते । त्याजयिष्यामि ते प्राणान् धनुर्मुक्तः शितैः शरैः ॥ १०॥ यत्तदा दण्डकारण्ये पितरं हतवान् मम । मदग्रतः स्वकर्मस्थं दृष्ट्वा रोषोऽभिवर्धते ॥ ११ ॥ दूह्यन्ते भृशमङ्गानि दुरात्मन् मम राघव । यन्मयाऽसि न दृष्टस्त्वं तस्मिन् काले महावने ॥ १२ ॥ दिष्टाऽसि दर्शनं राम मम त्वं प्राप्तवानिह । कांक्षितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः ॥ १३ ॥ मित्यर्थः । स्वकर्मस्थमिति सुतरामकृत्यनिरतमिति वाऽर्थः ॥ ११ ॥ दान्त इति । तस्मिन् काले महावने यद्यस्मान्न दृष्टोऽसि तस्मान्ममाङ्गानि दह्यन्ते । तदानीमेव दृष्टश्वेत्प्रतिकारेण तापः शाम्येदित्यर्थः ।। १२-१५ ॥ यत्तदेति । यस्मान्मम पितरं हतवान् तस्मान्मद्यतः तिष्ठन्तम् । स्वकर्मस्थमित्यत्र सु अकर्मस्थमिति छेदः । सुतरामकृत्यनिरतं दृष्ट्वा त्वामिति शेषः ॥ ११ ॥ दह्यन्त इति । तस्मिन् काले पितृवधसमये यस्मान्न दृष्टोऽसि अतो ममाङ्गानि दह्यन्ते, तदानीमेव दृष्टश्चेत्प्रतीकारेण तापशाम्येदित्यर्थः ॥ “ वारितान राक्षसान् दृष्ट्वा" इत्यारभ्य "ये त्वया निहता वीराः" इत्यन्तस्य वास्तवार्थस्तु मकराक्षो रामनिष्ठुरभाषण प्रवृत्तोऽपि मकराक्षवाणी रामं प्रकारान्तरेणाह - वारिता नित्यारभ्य लोकपन क्रोधानलसमाविष्ट इत्येतत्तस्य स्वरूपकथनम् ॥ तिष्ठेति । हे राम! ते तव धनुर्मुक्तः शरैः मे मम प्राणान त्याजयिष्यामि । मया सार्धं तिष्ठ द्वन्द्वयुद्धे जहीति सम्बन्धः ॥ यत्तदेत्यादि श्लोकद्वयमेकं वाक्यम् । हे दुरात्मन् ! दुष्टेष्वप्यात्मा अन्तःकरणं दयासारं यस्य राघव ! यत् यस्मात् मदमतः मत् मत्तः अग्रतः पूर्वमेव मद्दधात्पूर्वमेवेत्यर्थः । दण्डकारण्ये मम पितरं स्वकर्मस्थं सुतरामकृत्यनिरतं दृष्ट्वा इतवान् तस्मात्तस्मिन् काले महावने मया त्वं न दृष्टः तम्माश्वस्तवधाभावादिति शेषः । अङ्गानि दह्यन्ते रोषश्चाभिवर्द्धत इति सम्बन्धः ॥ १२ ॥ दिष्टचेत्यस्य इवशब्दो वाक्यालङ्कारे । सिंहस्य सिंहसदृशस्य क्षुधा तस्य त्वदर्शनं कदा भविष्यतीति क्षुधया आर्तस्य मृग इव मृग्यते ब्रह्मादिभिरिति मृगः सर्वेश्वरः अत एव इतरः प्रपञ्चातीतः अत एव कांक्षितः, ब्रह्मादिभि For Private And Personal Use Only टी.यु.कां. स० ७९ ॥२४८||
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy