________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥२४७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आवह चोय | अत्रेतिकरणं द्रष्टव्यम् ॥ ८ ॥ अथ तानित्यादिचतुः श्लोक्येकान्वया ॥ ९-१२ ॥ मकराक्षस्येति । समागताः समाजग्मुः ॥ १३ ॥ ते कामरूपिण इत्यादिश्लोकद्वयमेकान्वयम् । स्पष्टम् ॥ १४-१६ ॥ प्रभ्रष्ट इति । करात्तस्य आर्त्तकरस्य वशीकृतकरस्य, लघुड़स्तस्येति यावत्
प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः । सूतं संचोदयामास शीघ्रं मे रथमावह ॥ ८॥ अथ तान राक्षसान् सर्वान मकराक्षोऽब्रवीदिदम् । यूयं सर्वे प्रयुद्धयध्वं पुरस्तान्मम राक्षसाः ॥ ९ ॥ अहं राक्षसराजेन रावणेन महात्मना । आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ॥ १० ॥ अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः । शाखामृगं च सुग्रीवं वानराश्च शरोत्तमैः ॥ ११ ॥ अद्य शूलनिपातैश्च वानराणां महाचमूम् । प्रदहिष्यामि संप्राप्तः शुष्केन्धन मिवानलः ॥ १२ ॥ मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः । सर्वे नानायुधोपेता बलवन्तः समागताः ॥ १३ ॥ ते कामरूपिणः सर्वे दंष्ट्रिणः पिङ्गलेक्षणाः । मातङ्गा इव नर्दन्तो ध्वस्तकेशा भयानकाः ॥ १४ ॥ परिवार्य महा काया महाकायं खरात्मजम् । अभिजग्मुस्ततो हृष्टाश्चालयन्तो वसुन्धराम् ॥ १५ ॥ शङ्खभेरीसहस्राणामाहतानां समन्ततः । क्ष्वेलितास्फोटितानां च ततः शब्दो महानभूत् ॥ १६ ॥ प्रभ्रष्टोऽथ करात्तस्य प्रतोदः सारथेस्तदा । पपात सहसा चैव ध्वजस्तस्य च रक्षसः ॥ १७ ॥ तस्य ते रथयुक्ताश्च हया विक्रमवर्जिताः । चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः ॥ १८ ॥ प्रवाति पवनस्तस्मिन् सपांसुः खरदारुणः । निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः॥ १९ ॥ ॥ १७ ॥ विक्रमवर्जिताः विविधपदन्यासविरहिताः । प्रथममा कुलेश्वरणैर्गत्वा पश्चाद्ययुरित्यर्थः ॥ १८ ॥ सपांसुः अत एव खरदारुणः खरः परुषः त्वरया ।। ६-९ ।। अहं राक्षसराजेनेत्यादिश्लोकद्वयस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु-अहं रावणेन रामलक्ष्मणौ हन्तुमद्याज्ञप्तो यद्यपि तथापि लक्ष्मणं रामं, विनेति शेषः । वानरान वधिष्यामीति सम्बन्धः ॥ १०- १३ ॥ ध्वस्तकेशाः विप्रकीर्णकेशाः अत एव भयावहाः ॥ १४-१७ ॥ तस्येति । विक्रमवर्जिताः विविधपादविन्यासरहिताः । प्रथममाकुलैश्वरणैर्गत्वा पश्चाद्ययुरित्यर्थः ॥ १८ ॥ सर्पासुः अत एव खरः परुषः ॥ १९ ॥ २० ॥
For Private And Personal Use Only
टी. यु. कॉ
स० ७८
| ॥ २४०॥