________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥ २४६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भीमं विचुकुशुः । हनुमद्रहणहर्षादिति भावः । उद्यतं गृहीतम् ॥ १९ ॥ २० ॥ आत्मानमिति । क्षितावभ्यवपद्यत स्थितः ॥ २१ ॥ निक्षिप्य भूमौ पातयित्वा । परमायत्तः अतिप्रयासयुक्तः । उत्पत्य ऊर्ध्वमुद्रत्य । उरसि वेगेन पपात ॥ २२ ॥ बाहुभ्यां शिरोधरां परिगृह्य परिवर्त्य शिर उत्पाटया
तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान् । अभिचिक्षेप वेगेन वेगवान् वायुविक्रमः ॥ १६ ॥ ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम् । मुष्टिना तेन संजज्ञे ज्वाला विद्युदिवोत्थिता ॥ १७ ॥ स तु तेन प्रहारेण निकुम्भो विचचाल ह । स्वस्थश्चापि निजग्राह हनुमन्तं महाबलम् ॥ १८ ॥ विचुक्रुशुस्तदा सङ्ख्ये भीमं लङ्कानिवासिनः । निकुम्भेनोद्यतं दृष्ट्वा हनुमन्तं महाबलम् ॥ १९ ॥ स तदा ह्रियमाणोऽपि कुम्भकर्णात्मजेन ह । आजघानानिलसुतो वज्रकल्पेन मुष्टिना ॥ २० ॥ आत्मानं मोचयित्वाऽथ क्षितावभ्यवपद्यत् । हनुमानुन्ममाथाशु निकुम्भं मारुतात्मजः ॥ २१ ॥ निक्षिप्य परमायत्तो निकुम्भं निष्पिषेष ह । उत्पत्य चास्य वेगेन पपातोरसि वीर्य वान् ॥ २२ ॥ परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम् । उत्पाटयामास शिरो भैरवं नदतो महत् ॥ २३ ॥ अथ विनदति सादिते निकुम्भे पवनसुतेन रणे बभूव युद्धम् । दशरथसुतराक्षसेन्द्रसून्वोभ्रंशतर मागतरोषयोः सुभीमम् ॥ २४ मास ॥ २३ ॥ उत्तरसर्गद्वयार्थ संग्रहेण दर्शयति- अथेति । विनदति निकुम्भे पवनसुतेन सादिते सति । दशरथसुतराक्षसेन्द्रसुन्वोः राममकराक्षयोः युद्धं परिघान्तरणप्रभ इति पाठः ॥१०-२३॥ अथेति । विनदति निकुम्भे सादित इति सम्बन्धः । राक्षसेन्द्रसूनुर्मकराक्षः । अनेन वक्ष्यमाणस्प रघुनाथमकराक्षयोर्युद्धस्य
For Private And Personal Use Only
टी. पु. कॉ.
स० ७७
स० [विनदति नानाप्रकारेण कथयति निम्मे दशरथसुतराक्षसेन्द्रखन्वोः दशसु दिक्षु रथो गमनम् अप्रतिहतं यस्य तस्य वायोः ।" रथः स्यात्स्यन्दने काये चरणे च " इति विश्वः सुतो हनुमान् । राक्षसेन्द्र ॥२४५॥ सूनः निकुम्भः तयोः भृशसरमागतरोषयोः यद्युद्धं बभूव तस्मिन्त्रणे पवनसुतेन सादिते सति राक्षसानां बलं मयमाविवेशेत्याकर्षः । ' अनेन वक्ष्यमाणकथोपक्षेपः' इत्युभौ । तत्र 'व्यपेते तु जीत्रे इत्यादिक मसङ्गतमिव दृश्यते । अस्मत्पचे दशरथशब्द एक एव गौणार्थ इति मन्तव्यम् । दशरथसुतोऽस्यास्तीति दशरथसुत इति वा । पवनसुतेन रणे निकुम्मे सादिते सति युद्धं न मात्रायाहारः न बभूव परपक्षे रणकर्तु रमावादिति वा ॥ २४ ॥