________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
लोकद्वयमेकान्वयम् । निष्कः पदकम् । भूषणैः हारादिभिः भाति स्म । " लट् स्मे " इति भूते लट् । स्तनयित्नुमान् गर्जितवान् । “स्तनयित्नु स्तु गर्जिते मेघे " इति रत्नमाला । इन्द्रधनुःस्थाने परिघः । विद्युत्स्थाने भूषणानि । विननादेति पूर्वश्लोकोक्को विनादः स्तनयित्नुस्थान इति नोप मेयन्यूनता ॥ ५ ॥ ६ ॥ परिषायेणेति । वातग्रन्थिः आवहादिसप्तवातस्कन्धः । सघोषः ससिंहनाद इति निकुम्भविशेषणम् । परिषविशेषणं वा ॥७॥ निकुम्भो भूषणैर्भाति तेन स्म परिघेण च । यथेन्द्रधनुषा मेघः सविद्युत् स्तनयित्नुमान् ॥ ६ ॥ परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः । प्रजज्वाल सघोषश्च विधूम इव पावकः ॥ ७ ॥ नगर्या विटपावत्या गन्धर्वभवनोत्तमैः । सह चैवामरावत्या सर्वेश्च भवनैः सह ॥ ८ ॥ सतारग्रहनक्षत्रं सचन्द्रं समहाग्रहम् । निकुम्भूपरिघाघूर्ण भ्रमतीव नमस्थलम् ॥९॥ दुरासदश्च संजज्ञे परिघाभरणप्रभः । कपीनां स निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ॥ १०॥ राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात् । हनुमांस्तु विवृत्योरस्तस्थौ प्रमुखतो बली ॥ ११ ॥ परिघोपमबाहुस्तु परिघं भास्करप्रभम् । बली बलवतस्तस्य पातयामास वक्षसि ॥ १२ ॥ स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः । विशीर्यमाणः सहसा उल्काशतमिवाम्बरे ॥ १३ ॥ स तु तेन प्रहारेण विचचाल महाकपिः । परिघेण समाधूतो यथा भूमिचलेऽचलः ॥ १४॥ स तदाऽभिहतस्तेन हनुमान प्लवगोत्तमः । मुष्टिं संवर्तयामास बलेनातिमहाबलः ॥ १५ ॥ नगर्येत्यादिश्लोकद्वयमेकान्वयम् । विटपावत्या अलकया । अत्रापि सहेति शेषः । भवनैः अमरभवनैः । ताराः अश्विन्यादयः । ग्रहाः बुधादयः । नक्ष त्राणि अश्विन्यादिभिन्नानि । महाग्रहाः शुकादयः । अत्र रात्रित्वात् सूर्यो नोक्तः । निकुम्भपरिघाघूर्णम्, अत्र परिषशब्देन तद्वाल उपलक्ष्यते । इव | शब्दो वाक्यालङ्कारे ॥ ८ ॥ ९ ॥ दुरासदश्वेति । परिघेणाभरणैश्च प्रभातीति परिषाभरणप्रभः । यद्वा परिघाभरणान्येव प्रभा यस्य स तथा । कपीनां दुरासदो जज्ञ इति सम्बन्धः ॥ १० ॥ राक्षस इति । प्रबलेषु प्रजङ्गादिषु हतेषु दुर्बलैर्भवद्भिः किमर्थं युद्धाय प्रयत्नः कृत इति निकुम्भः कुप्येदिति राक्षसानां भयं वेदितव्यम् । विवृत्य विस्तार्य । प्रमुखतः अग्रे ॥ ११ ॥ परिषोपमबाहुः निकुम्भः ॥ १२ ॥ व्यूढे विशाले । उल्काशतमिव वभाविति ॥ १३ ॥ स त्विति । भूमिचले भूकम्पे ॥ १४ ॥ संवर्तयामास चकारेत्यर्थः ।। १५-१८ ॥
परिवेष्टितम् ।। ३-६ ॥ वातग्रन्थिः आवद्दमवहादिसतवायुसन्धिः ॥ ७ ॥ विटपावत्या अलकया ॥ ८ ॥ ९ ॥ परिघान्तरणमभः परिघान्तकृतरणरक्तमभ इत्यर्थः ।
For Private And Personal Use Only