SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir टी.यु.का. ॥२४५॥ स०७७ सहस्रावृतमित्यर्थः । अत एव रविमण्डलसप्रभम् ॥ ९०-९२॥ गवां पतेः सूर्यस्य ॥ ९३॥ तस्मिन्निति । स्पष्टः ॥ ९४ ॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षट्सप्ततितमः सर्गः ॥ ७६॥ सतु तेन प्रहारेण विह्वलो भृशताडितः। निपपात तदा कुम्भो गतार्चिरिव पावकः॥९१ ॥ मुष्टिनाऽभिहतस्तेन निपपाताशु राक्षसः। लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ॥९२॥ कुम्भस्य पततोरूपं भग्नस्योरसि मुष्टिना। बभौ रुद्राभिपन्नस्य यथा रूपं गवां पतेः ॥ ९३॥ तस्मिन् हते भीमपराक्रमेण प्लवङ्गमानामृषभेण युद्धे । मही सशैला सवना चचाल भयं च रक्षास्यधिकं विवेश ॥९॥ इत्यार्षे० श्रीमद्युद्धकाण्डे षट्सप्ततितमः सर्गः॥ ७६ ॥ निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् । प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत ॥१॥ ततः स्रग्दामसन्नद्धं दत्तपञ्चा कुलं शुभम् । आददे परिघं वीरो नगेन्द्रशिखरोपमम् ॥२॥ हेमपट्टपरिक्षिप्तं वचविद्मभूषितम् । यमदण्डोपमं भीमं रक्षसां भयनाशनम् ॥३॥ तमाविध्य महातेजाः शक्रध्वजसमं तदा । विननाद विवृत्तास्यो निकुम्भो भीम विक्रमः॥४॥ उरोगतेन निष्केण भुजस्थैरङ्गदैरपि । कुण्डलाभ्यां च चित्राभ्यां मालया च विचित्रया ॥५॥ अथ निकुम्भवधः सप्तसप्ततितमे-निकुम्भ इत्यादि ॥१॥ तत इत्यादिश्लोकद्वयमेकान्वयम् । सम्दामसन्नद्धं खक्समूहनिबद्धम् । दत्तपञ्चाङ्गुलं चन्दन कुडमादिनार्पितपञ्चाङ्गुलमुद्रामुदितम् । अथवा कियाविशेषणमेतत् । दत्तपञ्चाङ्गुलं यथा तथा आददे । परिक्षिप्तं परिणद्धम् ॥२-४॥ उरोगतेनेत्यादि सत मुष्टिम् इति पाठः ॥ ८७-९२ ॥ मुष्टिनोरसि भनस्य पततः कुम्भस्य रूपं रुद्राभिपन्नस्य रुद्रेणामि भूतस्य गवां पतेः सूर्यस्य ॥ ९३ ॥९४ ॥ इति[ श्रीमहेश्वरतीर्थविरचित्तायां श्रीरामायणतत्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां षट्सप्ततितमः सर्गः ॥७६॥ ॥ १॥ तत इति । स्रग्दामसन्नद्धं नक्समूहनिबद्धम् । दत्तपणाहुलं चन्दनकुश्मादिना अपिंतपचाङ्कलमुद्रामुद्रितम् ॥ २ ॥ हेमपट्टपरिक्षिप्तमिति । परिक्षित स-रुद्राभिपन्नस्य स्ववरतः सूर्यमनु विमानेन गच्छतोऽसुरस्य याने तेनासहमानेन पातिते सति सतीपतिस्तं पातयामासेति पौराणिक्या कथया रुद्राभिपन्नता ज्ञेया ॥ १३ ॥ .. For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy