________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
कुम्भस्य ॥ ८३॥ गजावित्यादिसाश्योक एकान्वयः । आहितमदो आहितमदचेष्टौ । अन्योन्यगात्रग्रथितौ अन्योन्यसंश्लिष्टगात्रौ । परिश्रमात युद्धजनितश्रमात् सुखतः सधूमां ज्वालां विसृजन्ती, बभूवतुरिति शेषः ॥ ८२॥ ८३॥ दर्शयन्नुदधेस्तलम्, निकुम्भो यथा उदधितलं पश्येत्तथा ।
गजाविवाहितमदौ निश्वसन्तौ मुहर्मुहुः । अन्योन्यगात्रग्रथितौ कर्षन्तावितरेतरम् । सधूमा मुखतो ज्वाला विसृजन्तौ परिश्रमात् ॥८२॥ तयोः पादाभिघाताच्च निमग्ना चाभवन्मही । व्यापूर्णिततरङ्गश्च चुक्षुमे वरुणालयः ॥८३ ॥ ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्भसि । पातयामास वेगेन दर्शयन्नुदधेस्तलम् ॥८४॥ ततः कुम्भ निपातेन जलराशिः समुत्थितः। विन्ध्यमन्दरसङ्काशो विससर्प समन्ततः ॥ ८५॥ ततः कुम्भः समुत्पत्य सुग्रीव मभिपत्य च । आजघानोरसि क्रुद्धो वज्जवेगेन मुष्टिना ॥ ८६ ॥ तस्य चर्म च पुस्फोट बहु सुस्राव शोणितम् । स
च मुष्टिर्महावेगःप्रतिजघ्नेऽस्थिमण्डले ॥८७॥ तदा वेगेन तत्रासीत्तेजःप्रज्वलितं मुहुः । वचनिष्पेषसञ्जाता ज्वाला __ मेरौ यथा गिरौ ॥ ८८॥ स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः । मुष्टिं संवर्तयामास वचकल्पं महाबलः
॥ ८९ ॥ अर्चिस्सहस्रविकचं रविमण्डलसप्रभम् । स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ॥९॥ वेगेन पातयामासेत्यर्थः ॥ ८४ ॥ रामानु-तत इति । शतयोजनविस्तीर्णत्रिकूटशिखरमध्ये युद्धयन् सुग्रीवः कुम्भं लङ्कादीपतले लवणाम्भसि पातयामासेत्यभिधानात् सुग्रीवस्य अपरिमेयबलवत्ता द्योत्यते ॥ ८४ ॥ तत इति । विससर्प अभ्यवर्धत ॥ ८५॥८६॥ पुस्फोट विभिन्नम् । स चेति । सः मुष्टिः सुग्रीवस्यास्थिमण्डले । प्रति जन्ने प्रतिहतः, मोघो बभूवेत्यर्थः । स च मुष्टिर्महावेग इति पाठः ॥ ८७ ॥ वेगेन कुम्भवेगेन । तत्र सुग्रीववक्षसि । तेजः सट्टज प्रज्वलित मासीत् । वज्रनिष्पेषसाता इन्द्रेण पक्षच्छेदकाले वज्रसङ्घट्टजन्येत्यर्थः ॥८८॥ संवर्तयामास चकारेत्यर्थः ॥ ८९ ॥ अचिःसहस्रविकचम् अर्चिः अन्योन्यगात्रप्रथिती, बभूवतुरिति शेषः ॥ ८२-८६ ॥ तस्येति । पुस्फोट भिन्नम् स विति। सः सुग्रीवो मुष्टिमुद्यम्य अस्थिमण्डले प्रतिजघ्ने पुनर्हत इत्यर्थः।। स०-समुत्थितः उर्ध्वमुस्थितः । विन्थ्यमन्दरसङ्काशः तत्सदृशतरङ्गवान् । समन्ततो विससर्प । विश्यमन्दरसङ्काशः कुम्भः ततो जलात्समुत्पत्येत्यन्वय इति नागोजिभव्याख्या त्वर्थाप्रतिपत्त्या ॥ ८६ ॥y
For Private And Personal Use Only