SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir जलाशयं जलपवाहम् । नगेनेव वृक्षेणेव । वृक्षौषपरोऽयं शब्दः॥६२॥ अतिवर्तितुम् अतिक्रम्याभिमुख्येन गन्तुम् ॥६॥ तास्त्वित्यादिश्लोकद्वयमेकान्व यम् । अङ्गदं पृष्ठतः कृत्वा, अन्यथा हन्यादिति भावः । शैलसानुचरं शैलसानुचरत्वेनातिबलम् । “ गिरिचर इव नागः प्राणसारं बिभर्ति" इति कालि॥ समीक्ष्यापततस्तांस्तु वानरेन्द्रान महाबलान् । आववार शरौघेण नगेनेव जलाशयम् ॥ ६२ ॥ तस्य बाणपथं प्राप्य न शेकुरतिवर्तितुम् । वानरेन्द्र महात्मानो वेलामिव महोदधिः ॥६३ ॥ तांस्तु दृष्ट्वा हरिगणान् शरवृष्टिभि रर्दितान् । अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः ॥ ६४ ॥ अभिदुद्राव वेगेन सुग्रीवः कुम्भमाहवे । शैल सानुचरं नागं वेगवानिव केसरी ॥६५॥ उत्पाट्य च महाशैलानश्वकर्णान् धवान् बहून् । अन्यांश्च विविधान वृक्षांश्चिक्षेप च महाबलः ॥६६॥ तां छादयन्तीमाकाशं वृक्षवृष्टिंदुरासदाम् । कुम्भकर्णात्मजः शीघ्रं चिच्छेद निशितैः शरैः ॥६७॥ अभिलक्षण तीव्रण कुम्भेन निशितैः शरैः । आचितास्ते दुमा रेजुर्यथा घोराः शतघ्नयः ॥६८॥ द्रुमवर्ष तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान् । वानराधिपतिः श्रीमान् महासत्त्वो न विव्यथे ॥६९॥ निर्भिद्यमानः सहसा सहमानश्च तान शरान् । कुम्भस्य धनुराक्षिप्य बमलेन्द्रधनुष्प्रभम् ॥ ७० ॥ अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम् । अब्रवीत् कुपितः कुम्भं भग्नशृङ्गमिव द्विपम् ॥७१ ॥ निकुम्भाग्रज वीर्य ते बाणवेगवदद्धतम् । सन्नतिश्च प्रभावश्च तव वा रावणस्य वा ॥७२॥ दासोक्तेः॥६४-६७ ॥ अभिलक्षेणेति । अभिलक्षेण अभिगतलक्ष्येण । आचिताः सर्वतो नीरन्धतया व्याप्ताः । शतनयः शतध्न्यः । शङ्कचिता आयुध विशेषाः ॥ ६८-७१ ॥ वीर्यस्य बाणवेगवत्त्वं तदेतुत्वात् । सन्नतिः राक्षसेषु विनयः राक्षसप्रावण्यं वा । कम्पनप्रजङ्यूपाक्षशोणिताक्षमारकाणामङ्गद| समीक्ष्येति । जलाशयं प्रवाहम् ॥ ६२-७१ ॥ निकुम्भापजेति । सन्नतिः राक्षसेषु विनयः ॥ ७२ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy