SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ She Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsuri Gyanmandir www.kobatirth.org टी.यु.का. वा.रा.भू.अकुण्ठधारः अभग्नात्रैः। निशितैः उत्कृष्टैः। तीक्ष्णैः अयोमयः। “ तीक्ष्णं गरे मृषे लोहे " इति रत्नमाला ॥४८॥ न कम्पते नाकम्पत ॥१९॥ ॥२४॥ तान वृक्षान प्रचिच्छेद शिलाः विभेदेत्यन्वयः ॥५०-५२॥ सम्पीडयेति । एकहस्तस्य नेत्रपिधानव्यापृतत्वादेकहस्तेनोत्पाटनासम्भवादुरसि सोऽङ्गन्दं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान् । अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः ॥४८॥ अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते । शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह ॥४९॥ स प्रचिच्छेद तान् सर्वान विभेद च पुनः शिलाः। कुम्भकर्णात्मजः श्रीमान् वालिपुत्रसमीरितान् ॥५०॥ आपतन्तं च सम्प्रेक्ष्य कुम्भो वानरयूथपम् । भ्रुवोर्विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम् । तस्य सुस्रावरुधिरं पिहिते चास्य लोचने ॥५१॥ अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते । सालमासन्नमेकेन परिजग्राह पाणिना ॥५२॥ सम्पीड्य चोरसि स्कन्धं करेणाभिनिवेश्य च । किञ्चिदभ्यवनम्यैनमुन्ममाथ यथा गजः ॥ ५३॥ तमिन्द्रकेतुप्रतिमं वृक्षं मन्दर सन्निभम् । समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् ॥५४॥ स बिभेद शितैर्वाणैः सप्तभिः कायभेदनैः ॥५५॥ अङ्गदो विव्यथेऽभीक्ष्णं ससाद च मुमोह च ॥५६॥ अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरे। दुरासदं हरिश्रेष्ठं रामायान्ये न्यवेदयन् ॥५७॥ रामस्तु व्यथितं श्रुत्वा वालिपुत्र रणाजिरे । व्यादिदेश हरिश्रेष्ठान् जाम्बवत्प्रमुखां स्ततः॥५८॥ ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम् । अभिपेतुःसुसंक्रुद्धाः कुम्भमुद्यतकामुकम् ॥५९॥ ततो दुमशिलाहस्ताः कोपसंरक्तलोचनाः। रिरक्षिषन्तोऽभ्यपतनङ्गदं वानरर्षभाः ॥६० ॥ जाम्बवांश्च सुषेणश्च वेगदीच वानरः। कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः ॥६१ ॥ सम्पीडयेत्युक्तम् । अभिनिवेश्य अभिगृह्येत्यर्थः॥५३-५८॥ तत इति । रिरक्षिपन्तः रक्षितुमिच्छन्तः॥५९-६१ ॥ रावतेन्द्रचापयोस्संयोगः उत्पातकाले सम्भवति, अभूतोपमा वा ॥ ३९-६१ ॥ ॥२४॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy