________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
शीविषप्रख्यान शरारी आकर्णाकृष्टमुक्तेन मनिपपाताद्रिकूटाभी
अप्रतिद्वन्द्विभिः ॥ ३७॥ ३८ ॥ तस्येति । विद्युदैरावताभ्याम् अर्चिष्मत् । ज्यास्थानीया विद्युत् । बाणस्थानीयमरावतम् । ऐरावतं नाम दीर्घन्द्र धनुः । “ इन्द्रायुधं शक्रधनुस्तदीर्घमृजुरोहितम् । ऐरावतं च " इति वैजयन्ती। एवंभूतं द्वितीयमिन्द्रधनुरिख स्थितम् । ऐरावतादिसंयोग उत्पात,
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः। मुमोचाशीविषप्रख्यान शरान देहविदारणान् ॥ ३८॥ तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम् । विद्युदैरावतार्चिष्मद्वितीयेन्द्रधनुर्यथा ॥ ३९॥आकर्णाकृष्टमुक्तेन जघान दिविदं तदा। तेन हाटकपुड्वेन पत्रिणा पत्रवाससा ॥४०॥ सहसाऽभिहतस्तेन विप्रमुक्तपदः स्फुरन् । निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः ॥४१॥ मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे। अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम ॥४२॥ तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः । बिभेद तां शिला कुम्भः प्रसन्नैः पञ्चभिः शरैः ॥४३॥ सन्धाय चान्यं सुमुखं शरमाशीविषोपमम् । आजघान महातेजा वक्षसि दिविदाग्रजम् ॥४४॥ स तु तेन प्रहारेण मैन्दो वानरयूथपः। मर्मण्यभिहतस्तेन पपात भुवि मूञ्छितः ॥४५॥ अङ्गदो मातुलौ दृष्ट्वा पतितौ तु महाबलौ।
अभिदुद्राव वेगेन कुम्भमुद्यतकामुकम् ॥ ४६॥ तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः । त्रिभिश्चान्यैः शितैर्वाणैर्मातङ्गमिव तोमरैः ॥४७॥ काले भवति । अभृतोपमा वा ॥३९॥ आकति । हाटकं स्वर्णम् । पत्रिणा बाणेन । पत्रवाससा वास स्थानीयकङ्कपत्रेण ॥४०॥ विमुक्तपदः शिथिलपदविन्यासः । स्फुरन् चलन् । विह्वलः विवशः सन् ॥४१-४६॥ तमिति । तोमरेः अड्डौः॥१७॥ सुदुष्करं कर्म प्रचक्र इति सम्बन्धः ॥ ३७॥ ३८ ॥ तस्येति । तस्य कुम्भस्य सशरं धनुः विद्युदैरावतार्चिष्मत्सव अत एव तयुक्तेन्द्रधनुरिव शुशुभ इति सम्बन्धः । ऐरावतं नाम ऋजुदीर्घमिन्द्रधनुः। " इन्द्रायुधं शक्रधनुस्तद्दीर्घमुजुरोहितम् । ऐरावतं च विद्युत् चश्चला चपला चला ॥" इति वैजयन्ती। ज्यास्था नीया विशुद, माणस्थानीयमरावतम् । अयं भावा-विद्युत्सहितराषतसदृशातिमत्कुम्भधनुः विद्युत्सहितेरावतसहितद्वितीयेन्द्रधनुरिव चकाश इति । विद्युत्साहित
२१८
For Private And Personal Use Only