________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अपरान् प्रजवादीन् ॥ ११ ॥ तमेव अङ्गदमेव ॥ १२ ॥ १३॥ तयोरिति । यूपाक्षस्य दूरस्थत्वादनुक्तिः ॥११॥ अङ्गदमिति । परिरक्षन्ती, मातुलत्वादिति भावः । परस्परदिदृक्षया स्वानुरूपप्रतिभटराक्षसजिज्ञासयेत्यर्थः ॥ १५॥ अभिपेतुरिति । प्रतियत्ताः प्रतियनवन्तः । गुणाधान
तं प्रगृह्य महाखड् विनद्यच पुनः पुनः।वालिपुत्रोऽभिदुद्राव रणशीर्षे परानरीन ॥११॥आयसीं तु गदा वीरः प्रगृह्य कनकाङ्गदः। शोणिताक्षःसमाविध्य तमेवानु पपात ह ॥ १२॥ प्रजासहितो वीरो यूपाक्षस्तु ततो बली । रथेनाभिययौ क्रुद्धो वालिपुत्रं महाबलम् ॥ १३ ॥ तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजयोः । विशाखयोर्मध्य गतः पूर्णचन्द्र इवाभवत् ॥ १४॥ अङ्गन्दं परिरक्षन्तौ मैन्दो दिविद एव च । तस्य तस्थतुरभ्याशे परस्परदिदृक्षया ॥१५॥ अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः। राक्षसा वानरान रोषादसिचर्मगदाधराः ॥ १६ ॥ त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुङ्गवैः। संसक्तानां महद्युद्धमभवद्रोमहर्षणम् ॥१७॥ ते तु वृक्षान समादाय सम्प्रचिक्षिपु राहवे । खड्नेन प्रतिचिच्छेद तान् प्रजको महाबलः ॥ १८॥ रथानश्वान दुमैः शैलैस्ते प्रचिक्षिपुराहवे । शरौधैः प्रतिचिच्छेद तान यूपाक्षो निशाचरः॥ १९॥ सृष्टान दिविदमैन्दाभ्यां दुमानुत्पाटच वीर्यवान् । बभञ्ज गदया मध्ये शोणिताक्षःप्रतापवान् ॥२०॥ उद्यम्य विपुलं खट्रं परमर्मनिकृन्तनम् । प्रजचो वालिपुत्राय अभिद्राव वेगितः॥२१॥ तमभ्याशगतं दृष्ट्वा वानरेन्द्रो महाबलः। आजघानाश्वकर्णेन दुमेणातिबलस्तदा ॥ २२ ॥ बाहुँ
चास्य सनिस्त्रिंशमाजघान स मुष्टिना । वालिपुत्रस्य घातेन स पपात क्षितावसिः ॥२३॥ प्रतियत्नः । आरोपितवीर्या इत्यर्थः ॥ १६-१८॥ रथानश्वान्, प्रतीति शेषः॥ १९॥ सृष्टानिति । उत्पाट्य सृष्टानित्यन्वयः॥२०॥ वालिपुत्राय वालिपुत्र हन्तुम् । “कियार्थोपपदस्य च कर्मणि स्थानिनः" इति चतुर्थी ॥ २१॥ वानरेन्द्रः अङ्गदः ॥२२॥ सनिर्विशं सखड्गम् ॥२३॥ अङ्गदमिति । परस्परदिदृक्षया युद्धार्य स्वानुरूपप्रतिमटराक्षसजिज्ञासयेत्यर्थः ॥ १५-२०॥ उद्यम्येति । वालिपुत्राय वालिपुत्र हन्तुम् ॥ २१-३१॥
For Private And Personal Use Only