________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी..का
बा.रा.म. ॥२४०॥
तत्र चेति । संसक्तपातालः पातालपर्यन्तं संसक्तः॥५२॥ पताकेत्यादिसाचतुःश्लोक्येकान्वया । चलत्पटा पताका । मत्स्यादिचिह्नितं ध्वजम् । M
उत्तमासिपरश्वधम् परश्वधोऽसिरूपः कुठाररूपश्चास्ति, तत्रासिरूपपरश्वधोऽसिपरश्वधः । तेन वक्ष्यमाणयोः खगपरश्वधयोन पौनरुक्त्यम् । ज्वलित स.७५ प्रासमित्यत्र प्रासशब्दः क्षेप्तव्ये ह्रस्वकुन्ते वर्तते, तेन तस्यापि न पौनरुक्त्यम् । पत्तयः पदातयः । तेषां नानात्वं वेषायुधादिभेदात् । प्रासस्य जालितत्वं
तत्र चोर्ध्व प्रदीप्तानां गृहाणां सागरः पुनः।भाभिःसंसक्तपातालश्चलोमिः शुशुभेऽधिकम् ॥५२॥ पताकाध्वज संसक्तमुत्तमासिपरश्वधम् । भीमाश्वरथमातङ्गं नानापत्तिसमाकुलम् ॥५३॥ दीप्तशूलगदाखङ्गप्रासतोमरकार्मुकम् । तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् ॥५४॥ ददृशे ज्वलितप्रासं किङ्किणीशतनादितम् । हेमजालाचितभुजं व्यामिश्रितपरश्वधम् ॥ ५५ ॥ व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् । गन्धमाल्यमधूत्सेकसंमोदितमहा निलम् ॥ ५६ ॥ घोरं शूरजनाकीर्ण महाम्बुधरनिस्वनम् ॥ ५७॥ तदृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम् । सञ्चचाल प्लवङ्गानां बलमुच्चैर्ननाद च ॥ ५८॥ जवेनाप्लुत्य च पुनस्तरलं रक्षसां महत् । अभ्ययात् प्रत्यरिवलं
पतङ्गा इव पावकम् ॥ ५९॥ युद्धागमनसमये शिक्षाविशेषप्रदर्शकक्रियासंबन्धात् । किङ्किणीशतनादितं रथगजादिकिङ्किणीशतनादितम् । हेमजालाचितभुजं हेमाभरणजाला बद्धभुजम् । व्यावेष्टितपरश्वधं मदेन चालितपरश्वधम् । शस्त्रम् उक्तव्यतिरिक्तायुधम् । बाणसंसक्तकामुकमिति । दीप्तशूलगदाखड्गप्रासतोमरकामुक मित्यत्र यत् पूर्वोक्तं कार्मुकं तद्भङ्गे पुनरादातुं पृष्ठे बदमपरमिदं कार्मुकमिति ज्ञेयम् । गन्धेति । गन्धः चन्दनादिः गन्धमाल्याभ्यां मधूत्सेकेन वीर पाणरूपमधुसेवनेन च संमोदितमहानिलं वासितमहाबातम् ॥५३-५७॥ आयान्तमिति पुंल्लिङ्गमार्षम् । सञ्चचाल अभिमुखं जगाम ॥ ५८॥५९॥ संसक्तः पातालो येन सः सागरः भामिः अधिक शुशुभे इति सम्बन्धः ॥ ५२ ।। पताकेत्यादि सार्धपक्षकमेकान्वयम् । उत्तमासिपरश्वधम्-परश्वधो द्विविधः || असिरूपः कुठाररूपश्च, तबासिरूपः परश्वधोऽसिपरश्वधः । अनेनोत्तरत्र खड्गपरश्वधाभ्यां न पोनरुक्त्यम् । व्यामिश्रिताः उत्तेजिताः परश्वधाः यस्य तत् ॥५३-६४॥MI
MRYON
For Private And Personal Use Only