________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥२३९॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अशोभतेति । वेदमयं धनुः वेदोक्तलक्षणं धनुः । " कृत्तिवासाः पिनाकी " इति श्रुत्या प्रतिपादितमहिमेति वाऽर्थः ॥ ३५ ॥ उद्धुष्टमिति । रामस्य ज्याशब्दः वानराणामुद्युष्टं राक्षसानां निस्वनं च तावुभावतीत्य शुश्रुवे ॥ ३६ ॥ वानरेति । वानरोद्रपुष्टपोषः वानरोत्पादितघोषः अशोभत तदा रामो धनुर्विष्फारयन् महत् । भगवानिव संक्रुद्धो भवो वेदमयं धनुः ॥ ३५ ॥ उद्रधुष्टं वानराणां च राक्षसानां च निस्वनम् । ज्याशब्दस्तावुभौ शब्दावति रामस्य शुश्रुवे ॥ ३६ ॥ वानरोदघुष्ट्घोषश्च राक्षसानां च निस्वनः । ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश ॥ ३७ ॥ तस्य कार्मुकमुक्तैश्च शरैस्तत्पुरगोपुरम् । कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि ॥ ३८ ॥ ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च । सन्नाहो राक्षसेन्द्राणां तुमुलः समपद्यत ॥ ३९ ॥ तेषां सन्नह्यमानानां सिंहनादं च कुर्वताम् । शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत ॥ ४० ॥ आदिष्टा वानरेन्द्रास्तु सुग्रीवेण महात्मना । आसन्नद्वारमासाद्य युध्यध्वं प्लवगर्षभाः ॥ ४१ ॥ यश्च वो वितथं कुर्यात्तत्र तत्र ह्युपस्थितः । स हन्तव्यो हि सम्प्लुत्य राजशासनदूषकः ॥ ४२ ॥ तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु । स्थितेषु द्वारमासाद्य रावण मन्युराविशत् ॥ ४३ ॥
॥ ३७ ॥ ३८ ॥ तुमुलः अधिकः ॥ ३९ ॥ तेषामिति । सन्नह्यमानानां कक्ष्याबन्धनादि युद्धसन्नाहं कुर्वताम् । रौद्री प्रलयरात्रिः ॥ ४० ॥ आदिष्टा इत्यादिश्लोकद्वयमेकान्वयम् । अन्ते इतिकरणं बोध्यम् । व इति निर्धारणे षष्ठी। वितथं कुर्यात्, मच्छासनमिति शेषः । आसन्नद्वारं रावणान्तः संहारकाले संक्रुद्धो भवः । वेदमयं शब्दब्रह्मात्मकम् ॥ ३५-३८ ॥ सन्नाहः उद्योगः ॥ ३९ ॥ रौद्री कालरात्रिरिव ॥ ४० ॥ आदिष्टश इत्यादि श्लोकद्वयमेकं वाक्यम् । वः युष्माकं मध्ये यः तत्र तत्र व्यवस्थितस्सन वितथं कुर्यात, मच्छासनमिति शेषः । राजशासनदूषकः सः हन्तव्यः, अतो युद्धयध्वमिति सुग्रीवेण
स० - वेदमयं वेदात्मकं तदभिमान्यभिमानिकम् । भारते कर्णपर्वान्तर्गतशल्पदुर्योधनसंवादे " संवत्सरो धनुस्तद्वे " " तस्य संवत्सरो धनुः" इत्युक्तिस्वेकरूपानेकेऽभिमानिनो भवन्तीति न विरुणद्धि ||२५|| वानरो घुष्टशब्दो वानरकृतशब्दजशब्दः । राक्षसानां च निस्वनः रामस्य ज्याशब्दश्वेत्येतमितयं दश दिशो व्याप व्यापत् । एत छन्दद्वयावरीकरणं च द्वयोस्तस्य च समन्यापनाभावेऽसम्भावितम् सति तस्मिन्नोत्कटपानीकटवे विदिते भवत इति अति क्रमणव्यापने सम्भवत इति न पूर्वोत्तरविरोधः || ३६ || ३७ ॥
For Private And Personal Use Only
टी.यु.कॉ. स० ७५
॥२३९॥