________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
यद्वा अर्थ्य विज्ञापयन् विशेषेण ज्ञापयन् ॥१॥ इदानीं लङ्कादाहोपदेशे निमित्तमाह-यत इति । उपनिहरिम् उपनिष्कमणम् । युद्धाय निर्गमन मिति यावत् । हतपुत्रादित्वेनानुत्साहादावणो न निर्गमिष्यतीति भावः । अत्र आग्रहेण प्रेतनिर्यापनरूढनिहारपदप्रयोगः । दातुं कर्तुमिति यावत् । धातूनामनेकार्थत्वात् । उपनिरिशब्दः उपनिष्क्रम्य युद्धपरो वा ॥२॥ लघवः वेगवन्तः। उत्पतन्तु प्राकारमुत्प्लुत्य गच्छन्तु ॥३॥ तत इति । ननु ।
यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः। नेदानीमुपनिर्हारं रावणो दातुमर्हति ॥२॥ ये ये महाबलाः सन्ति लघवश्च प्लवङ्गमाः। लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः॥ [ हरयो हरिसङ्काशाःप्रदग्धुं रावणालयम् ।] ॥३॥ ततोऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे । लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ॥४॥ उल्काहस्तैहरिगणैः सर्वतः समभिद्रुताः। आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः ॥५॥ गोपुराट्टप्रतोलीषु
चर्यासु विविधासु च । प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् । तेषां गृहसहस्राणि ददाह हुतभुक्तदा ॥६॥ पूर्वम् 'उल्काहस्तौ तदा रात्रौ' इत्युक्तम्, अत्र आदित्यास्तमयसमय इति गम्यते, अतो विरुद्धमिति चेन्न विरोधः । आदित्येऽस्तं गत इति प्रकाशा भावोक्तिः । निशामुख इति रात्रेः प्रथमयाम उच्यते । रौद्र इति विशेषणात् यामान्तत्वेन गाढान्धकारत्वमुच्यते । हनुमांश्च महाद्भुतवेगशालितया मुहूर्तमात्रेण प्रस्थायौपधिपर्वतमानीय तं पुनस्तत्र निक्षिप्यागतवानिति तस्य वेगातिशयश्च प्रतिपादितो भवति ॥ ४॥ आरक्षस्थाः गुल्मस्थाः नगर रक्षिणो वा । आरक्षो दुर्गरक्षिणां स्थानम्, तत्रस्था वा । “विष्वारक्षस्तु रक्षणे" इति रत्नमाला । विरूपाक्षाः राक्षसाः॥५॥ गोपुरं पुरद्वारम् । अन्ति मित्यर्थः । विज्ञापयन कर्तव्य बोधयन्नित्यर्थः ॥ १॥ उपनिहारम् उपनिष्क्रम्य युद्धप्रदानम् ॥२॥३॥ निशामुखे निशायाः पूर्वयामे। "उल्काहस्तौ तदा तो तु रणशी विचरतुः" इति पूर्वसगोक्तेः सन्ध्याकालानन्तरं प्रस्थायौषधिपर्वतमानीय पुनस्तत्र निक्षिप्य आगतं हनुमन्तमुद्दिश्य "ये ये महाबलास्सन्ति लघवञ्च प्रवङ्गमाः । ललामभ्युत्पतन्तु" इति सुग्रीवादेशानन्तरं प्लवगर्षभाः निशायाँ लङ्का जग्मुरित्यभिधानात हनुमतः अचिन्त्यवेगातिशयस्सूच्यते । ततोऽस्तङ्गत आदित्य इति पूर्वसिद्धस्यैव अस्तमयस्यानुवादः, न त्विदानीमस्तमयः । यद्वा 'ततोऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे' इति परदिनवृत्तान्तः ॥४॥ आरक्षस्था: गुल्मस्थाः । विरूपाक्षा राक्षसाः॥५॥ तेषां वानराणां सम्बन्धी हुतभुक ॥६॥ कतक०-तस्मादिदानीम् उपनिहार पुररक्षाम् । दातुं सम्पादयितुम् नार्हति ॥ २॥ सा-भारतं रक्षणीय द्वारादि । तत्र तिष्ठन्तीत्यारक्षस्थाः । “आरक्ष रक्षणीय स्यात् " इति विश्वः ॥५॥
-
-
२१५
-
For Private And Personal Use Only