________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
एतच्छीकानन्तरमित्युक्त्वेत्यध्याहार्यम् । स इति । सनागं सगजम् । उन्ममाथ उत्पाटयामास ॥६७।६८॥ भास्कराध्वानम् अन्तरिक्षम्, भास्कराम शिखरग्रहणात् स्वयं भास्करसन्निकाशत्वाच्च । सूर्यसमीपस्थ प्रतिसूर्य इव बभावित्यर्थः॥६९॥ सहस्रधारेण अर्पितेन हस्तेऽपितेन । सपावकेन आनिज्वाला |वता । चक्रेण विष्णुरिव रराज ॥७०॥ तं वानरा इत्यनेन दूरादेव गन्धाघ्राणेन सर्वे जीविता इति गम्यते ॥७१॥ शैलोत्तमे त्रिकूटशिखरे ॥७२॥७३॥
स तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम् । विकीर्णकूटज्वलिताग्रसानुं प्रगृह्य वेगात् सहसोन्ममाथ ॥६७॥ स तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान् ससुरासुरेन्द्रान् । संस्तूयमानः खचरैरनेकैर्जगाम वेगाद गरुडोग्रवेगः ॥ ६८ ॥ स भास्कराध्वानमनुप्रपन्नस्तं भास्कराभं शिखरं प्रगृह्य । बभौ तदा भास्करसन्निकाशो रवेः समीपे प्रतिभास्कराभः ॥ ६९ ॥ स तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु । सहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवार्पितेन ॥ ७० ॥ तं वानराः प्रेक्ष्य विनेदुरुच्चैः स तानपि प्रेक्ष्य मुदा ननाद । तेषां समुघुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ॥ ७१ ॥ ततो महात्मा निपपात तुस्मिन शैलोत्तमे वानरसैन्यमध्ये। हर्युत्त मेभ्यः शिरसाऽभिवाद्य विभीषणं तत्र स सस्वजे च ॥ ७२ ॥ तावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधी नाम् । बभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ॥७३॥ सर्वे विशल्या विरुजःक्षणेन हरिप्रवीरा निहताश्च ये स्युः । गन्धेन तासां प्रवरौषधीनां सुप्ता निशान्तेष्विव सम्प्रबुद्धाः ॥७४ ॥ यदाप्रभृति लङ्कायां
युद्धयन्ते कपिराक्षसाः । तदाप्रभृति मानार्थमाज्ञया रावणस्य च ॥ ७५॥ विशल्यकरण्या विशल्याः, सन्धानकरण्या विरुजः, ये पूर्व निहतास्तेऽपि सुप्ता निशान्तविक सम्प्रबुद्धाः। अनेन सावर्ण्यसिद्धिरप्युक्ता ॥७॥ तर्हि निहता राक्षसाः किं न प्रबुद्धाः ? इत्यत्राह-यदाप्रभृतीति । मानाथै हतानां राक्षसानाम् इयत्तया अपरिज्ञानार्थम्, मृतशरीरसङ्ख्याप्रतिपत्त्यर्थ वा। तर्हि विकीर्णमात्मानं पश्येति सम्बन्धः ॥ ६६ ॥ सनागं सगजम् । उन्ममाथ उत्पाटयामास ॥ ६७-६९ ॥ सहस्रधारेण सहस्रारेण अर्पितेन ॥७०-७४॥ यथा इता स-बिनेदुः अनेन बातमात्रसरोंन गात्रस्मृतिररोगतः च कीनां जाते इति सम्यते । शेष स च ते च ते । तेषा हनुमानराणाम् ॥ १॥
For Private And Personal Use Only