SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा.भू. ॥२३३.. 995 लावाक्यम् ॥१९-२३॥ तत इति । मारुतात्मजः हनुमान् । वृद्धं जाम्बवन्तम् उपागम्य । नियमेन श्रोत्रहस्तसंस्पर्शव्यत्यस्तहस्तत्वादिरूपेण सहयटी.यु.at जाम्बवतः पादो गृह्य गृहीत्वा अभ्यवादयत्, स्वनामोच्चारणपूर्वकं युगपत् पादावगृह्णादित्यर्थःगा२४॥ वाक्यं हनुमानहमस्मीत्यभिवादनवाक्यम् । तथा स. व्यथितेन्द्रियोऽपि हनुमतो वाक्यं श्रुत्वा ऋक्षपुङ्गवः जाम्बवान् आत्मानं पुनर्जातं मन्यते स्मेति संबन्धः ॥२५॥२६॥ आगच्छेति । विक्रमपर्याप्तः ततो वृद्धमुपागम्य नियमेनाभ्यवादयत् । गृह्य जाम्बवतः पादौ हनुमान मारुतात्मजः ॥ २४ ॥ श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः । पुनर्जातमिवात्मानं मन्यते स्मरूपुङ्गवः ॥२५॥ ततोऽब्रवीन्महातेजा हनुमन्तं स जाम्बवान् ॥२६॥ आगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि । नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा ॥२७॥ त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन । ऋक्षवानरवीराणामनीकानि प्रहर्षय । विशल्यौ कुरु चाप्येतो सादितौ रामलक्ष्मण ॥२८॥ गत्वा परममध्वानमुपर्युपरि सागरम् । हिमवन्तं नगश्रेष्ठं हनुमन् गन्तुमर्हसि ॥२९॥ ततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम् । कलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ॥३०॥ तयोः शिखरयो मध्ये प्रदीप्तमतुलप्रभम् । सर्वोषधियुतं वीर द्रक्ष्यस्योषधिपर्वतम् ॥ ३१ ॥ तस्य वानरशार्दूल चतस्रो मूर्ध्नि सम्भवाः। द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ॥ ३२ ॥ मृतसञ्जीवनी चैव विशल्यकरणीमपि । सावण्यकरण चैव सन्धानकरणी तथा ॥ ३३ ॥ पर्याप्तविक्रमः । विक्रमपूर्ण इति यावत् ॥२७॥ अन्यं पराक्रमितारम्॥२८॥ परमं दीर्घम् । उपर्युपरि सागरं सागरस्य समीपोपरि प्रदेशे । “उपर्यध्यधसः । सामीप्ये" इति सामीप्ये द्विवचनम् । “धिगुपर्यादिषु त्रिषु द्वितीया" इति द्वितीया ॥२९॥ ऋषभम् ऋषभाख्यम् । पर्वतोत्तमं शिखरमित्यर्थः ॥२३३॥ ॥३०॥ ३१ ॥ तस्येत्यादिश्लोकत्रयमेकान्वयम् । ओषधयः ओषधीः। दीपयन्त्यः दीपयन्तीः । व्यत्ययेन द्वितीयार्थे प्रथमा । मृतं सञ्जीवयतीति । भागेनेत्यर्थः । स्वयम्भुवः बल्लभेन ब्रह्मास्त्रेणेत्यर्थः ॥ १२-२६ ॥ आगच्छति । विक्रमपर्याप्तः पर्याप्तविक्रमः ॥२७-३१॥ तस्येति । ओषधयः ओषधीः। दीपयन्त्यः For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy