________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥ ॥ १५ Muषण
मकान्वयम् । आहुक इति कश्चियूथपः । गवाक्षं च सुपेणं च वेगदर्शिनमाहुकमिति पाठः । हतान् हतप्रायान् । प्रहतानिति वा ॥१०॥११॥ सप्तपष्टि रिति । वानराणां यूथपवानराणामित्यर्थः। सुग्रीवाङ्गन्दादिभिः सह पाठात् । अह्नः पञ्चमशेषेण पञ्चमभागेन, प्रातःसङ्गवमध्याह्नापरासायाह्नसंज्ञाः
सप्तषष्टिहताः कोटयो वानराणां तरस्विनाम् । अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः ॥ १२ ॥ सागरौघनिभं भीम दृष्ट्वा बाणार्दितं बलम् । मार्गते जाम्बवन्तं स हनुमान सविभीषणः ॥ १३ ॥ स्वभावजरया युक्तं वृद्धं शरशतै श्चितम् । प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ॥१४॥ दृष्ट्वा तमुपसङ्गम्य पौलस्त्यो वाक्यमब्रवीत् । कच्चिदार्य शरैस्वीक्ष्णैः प्राणा न ध्वंसितास्तव ॥ १५॥ विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः। कृच्छ्रादभ्युगिरन वाक्य मिदं वचनमब्रवीत् ॥ १६ ॥ नैर्ऋतेन्द्र महावीर्य स्वरेण त्वाऽभिलक्षये। पीडयमानः शितैर्बाणैन त्वां पश्यामि चक्षुषा ॥ १७॥ अञ्जना सुप्रजा येन मातरिश्वा च नैर्ऋत । हनुमान् वानरश्रेष्ठः प्राणान् धारयते क्वचित् ॥१८॥ श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः। आर्यपुत्रावतिक्रम्य कस्मात् पृच्छसि मारुतिम् ॥ १९॥ नैव राजनि सुग्रीव नाङ्गदे नापि राघवे । आर्य सन्दर्शितः स्नेहो यथा वायुसुते परः॥ २० ॥ विभीषणवचः श्रुत्वा जाम्बवान वाक्यमब्रवीत्। शृणु नैऋतशार्दूल यस्मात् पृच्छामि मारुतिम् ॥२१॥ तस्मिन् जीवति वीरे तु हतमप्यहतं बलम् । हनुमत्युज्झितप्राणे जीवन्तोऽपि वयं हताः ॥ २२॥ धरते मारुतिस्तात मारुतप्रतिमो यदि । वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ॥ २३ ॥ पण्नाडिकात्मका: अह्नः पञ्च भागाः सन्ति । तेषु पञ्चमेन सायाह्नसंज्ञेन नाडीपट्वेनेत्यर्थः । स्वयम्भुवो वल्लभेन इन्द्रजिता, ब्रह्मास्त्रेण वा ॥१२-१५॥ विभीषणेति । वाक्यं वाक्योपयोगि स्वरम् ॥ १६॥ १७॥ अञ्जनेति। धारयत इत्यत्र काकुः, किं धारयत इत्यर्थः ॥ १८॥ श्रुत्वेत्यादिश्चोकद्वयमेकं वानराणां यूथपवानराणामित्यर्थः । अहः पञ्चमशेषेण पञ्चमभागेन प्रातस्सङ्गबमध्याह्वापराह्नसायासंज्ञितेषु षण्नाडिकात्मसु पञ्चभागेषु सायाह्नसंज्ञितेन ।
For Private And Personal Use Only