________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भीमकाय इति ॥ ६४ ॥ तार्ह तत्र प्रतिक्रिया कर्तव्येत्यत्राह-मन्य इति । स्वयम्भूः अचिन्त्यः अचिन्त्यप्रभाव इति मन्ये । तत्र हेतुमाह यस्येति । एतदत्रं यस्य यद्देवताकं यः अस्यास्त्रस्य प्रभवः उत्पत्तिकारणम्, सोऽचिन्त्यः । तावाभ्यां किं कर्तव्यामित्यत्राह बाणेति । धीमन् । आपत्सु न चलितव्यमिति ज्ञानिन् ! ॥ ६५ ॥ ६६ ॥ आवामिति । गतरोपहपो मूच्छिताविति यावत् । अमरारिवासं लङ्काम् । रणाग्रलक्ष्मी मन्ये स्वयम्भूर्भगवानचिन्त्यो यस्यैतदत्रं प्रभवश्च योऽस्य । बाणावपातास्त्वमिहाद्य धीमन् मया सहाव्यग्रमनाः सहस्व ॥६५॥ प्रच्छादयत्येष हि राक्षसेन्द्रः सर्वा दिशः सायकवृष्टिजालैः । एतच्च सर्व पतिताग्यशूरं न भ्राजते वानरराजसैन्यम् ॥६६॥ आवां तु दृष्ट्वा पतितौ विसंज्ञौ निवृत्तयुद्धौ गतरोषहर्षों । ध्रुवं प्रवेक्ष्यत्यमरारिवास मसौ समादाय रणाग्रलक्ष्मीम् ॥ ६७ ॥ ततस्तु ताविन्द्रजिदस्त्रजालैर्वभूवतुस्तत्र तथा विशस्तौ । स चापि तौ तत्र विदर्शयित्वा ननाद हर्षाधुधिराक्षसेन्द्रः ॥६८॥ स तत्तदा वानरसैन्यमेवं राम च सङ्ख्ये सह लक्ष्मणेन । विषाद यित्वा सहसा विवेश पुरी दशग्रीवभुजाभिगुप्ताम् ॥ [ संस्तूयमानः स तु यातुधानैः पित्रे च सर्व हषितोऽभ्यु वाच ॥]॥ ६९॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिसप्ततितमः सगः ॥ ७३ ॥
तयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरिपुङ्गवानाम् ।
सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किञ्चित् प्रतिपेदिरे ते ॥१॥ विजयलक्ष्मीम् । अग्रपदेन रणमूललक्ष्मीन ग्रहीतुं शक्येत्युच्यते । एतेन मूलघातः कर्तुं न शक्यत इत्युच्यते ॥६७॥ ततस्त्विति । विशस्ती पीडितो तो पतितो विदर्शयित्वा दृष्ट्वा ननादु ॥६८॥६९॥ इति श्रीगोविन्दराजवि० श्रीरामा रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिसप्ततितमः सर्गः॥७३॥ ५ अथ ब्रह्मास्त्रबन्धविमुक्तिश्चतुस्सप्ततौ-तयोरित्यादि । सादितयोः अवसादितयोः । किंचिन्न प्रतिपेदिरे, मूढा बभूवुरित्यर्थः ॥ १ ॥२॥ आवामिति । अमरारिवासं लङ्काम् । रणाग्रलक्ष्मीम, नतु समूलाम् । पतेन समूलं हन्तुं न शक्यत इति सचितम् ॥ ६७-६९ ॥ इति श्रीमहेश्वरतीर्थविर चितार्या श्रीरामायणतस्वदीपिकाण्यायो युद्धकाण्डव्याख्यायो त्रिसप्ततितमः सर्गः ॥७३॥ तयोरिति । सादितयोः प्रहतयोः॥१॥
For Private And Personal Use Only