________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.म. ዘነበ
ततो ज्वलनेत्यादिश्लोकद्वयमेकान्वयम् । शरैः तीक्ष्णरित्यर्थः ॥ ५४॥५५॥ विविशुरन्योन्यम् अन्योन्योपालम्बनार्थ पेतुरित्यर्थः ॥५६॥ हनुमन्तीका मित्यादिचतुःश्लोक्येकान्वया । केसरिमित्यापम् ॥ ५७-६०॥ स वा इति । गदाभिरित्येतत् पूर्वोक्तप्रासादीनामुपलक्षणम् ॥६॥ बाणवः बाणनिरन्तर पातैः । अभिवर्ण्यमाणः अभितः पात्यमानः स रामः । तान् बाणवान् । धारानिपातानिव लघूनचिन्त्य, बाणवणे तृणीकृत्येत्यर्थः । अत्र हेतुमाइ स.
स शूलनिस्त्रिंशपरश्वधानि व्याविध्य दीप्तानलसन्निभानि । सविस्फुलिङ्गोज्ज्वलपावकानि ववर्ष तात्र प्लवगेन्द्र सैन्ये ॥५३॥ ततो ज्वलनसङ्काशैः शरैर्वानरयूथपाः। ताडिताः शक्राजिद्राणैः प्रफुल्ला इव किंशुकाः ॥५४॥ तेऽन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम् । राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः ॥५५॥ उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः । शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले ॥५६॥ हनुमन्तं च सुग्रीवमङ्गन्दं गन्धमादनम् । जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ॥५७॥ मन्दं च द्रिविदं नीलं गवाक्षं गजगोमुखौ । केसरि हरिलोमानं विद्युदंष्ट्र च वानरम् ॥ ५८ ॥ मूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम् । पावकाक्षं नल चैव कुमुदं चैव वानरम् ॥ ५९ ॥ प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः । विव्याध हरिशार्दूलान सर्वांस्तान राक्षसोत्तमः ॥६०॥ स वै गदाभि हरियूथमुख्यान निर्भिद्य बाणैस्तपनीयपुः । ववर्ष रामं शरवृष्टिजालैः सलक्ष्मणं भास्कररश्मिकल्पैः ॥६३ ॥ स बाणवराभिवर्ण्यमाणो धारानिपातानिव तानचिन्त्य । समीक्षमाणः परमाद्धतश्री रामस्तदा लक्ष्मण मित्युवाच ॥ ६२॥ असौ पुनर्लक्ष्मण राक्षसेन्द्रो ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः । निपातयित्वा हरिसैन्यमुग्र मस्मान् शरैरर्दयति प्रसक्तः ॥६३॥ स्वयम्भुवा दत्तवरो महात्मा खमास्थितोऽन्तर्हितभीमकायः। कथं नु शक्यो
युधि नष्टदेहो निहन्तुमद्येन्द्रजिदुद्यतास्त्रः ॥६४ ॥ परमेति । अत्यन्ताश्चर्यकरधैर्यसमृद्धिः सन् लक्ष्मणं समीक्षमाणः स्वस्वभावावलम्बनेन ब्रह्मास्त्रप्रतिक्रियां कर्तुमुद्युक्तमिङ्गितैरभिवीक्षमाणः सन्नित्यु
| ॥२३१॥ वाच ॥ १२ ॥ असाविति । असौ ब्रह्मानं ब्रह्मास्त्रमन्त्रम् आश्रित्य, प्रहरनिति शेषः ॥ ६३ ॥ स्वयम्भुवेति । नष्टदेहः अदृष्टदेहः। तत्र हेतुः अन्तर्हित
For Private And Personal Use Only