________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अष्टादशेत्यादिसार्धश्लोकत्रयमेकान्वयम् । दत्तवरैः वरदत्तैः ॥ ४२-४४ ॥ मूच्छितः प्रवृद्धः ॥ ४५ ॥ ४६ ॥ परया प्रीत्या हृष्टः उद्धतः ॥ ४७ ॥ | पुनरेवेत्यादिसार्धश्लोकमेकं वाक्यम् । खड्गादीनि शस्त्राणि । अत्र द्वितीयवलिशब्दो वरदान बलवत्तावाचकः । प्रथमो वीर्यवत्तावाचकः ॥ ४८ ॥ अष्टादशशरैस्तीक्ष्णैः स विदध्वा गन्धमादनुम् । विव्याध नवभिश्चैव नलं दूरादवस्थितम् ॥ ४२ ॥ सप्तभिस्तु महा वीर्यो मैन्दं मर्मविदारणैः । पञ्चभिर्विशिखैश्चैव गजं विव्याध संयुगे ॥ ४३ ॥ जाम्बवन्तं तु दशभिनलं त्रिंशद्भिरेव च । सुग्रीवमृषभं चैव सोऽङ्गदं द्विविदं तथा । घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत्तदा ॥ ४४ ॥ अन्यानपि तदा मुख्यान् वानरान् बहुभिः शरैः । अर्दयामास संक्रुद्धः कालाग्रिरिव मूच्छितः ॥ ४५ ॥ स शरैः सूर्यसङ्काशैः सुमुक्तैः शीघ्रगामिभिः । वानराणामनीकानि निर्ममन्थ महारणे ॥ ४६ ॥ आकुलां वानरीं सेनां शरजालेन मोहिताम् । हृष्टः स परया प्रीत्या ददर्श क्षत जोक्षिताम् ॥ ४७ ॥ पुनरेव महातेजा राक्षसेन्द्रात्मजो वली । संसृज्य बाणवर्षं च शस्त्र वर्षे च दारुणम् । ममर्द वानरानीकमिन्द्रजित्त्वरितो वली ॥ ४८ ॥ स्वसैन्यमुत्सृज्य समेत्य तूर्णं महारणे वानर वाहिनीषु । अदृश्यमानः शरजालमुग्रं ववर्ष नीलाम्बुधरो यथाऽम्बु ॥ ४९ ॥ ते शक्रजिद्वाणविशीर्णदेहा मायाहता विस्वरमुन्नदन्तः। रणे निपेतुर्हर योऽद्रिकल्पा यथेन्द्रवज्राभिहता नगेन्द्राः ॥ ५० ॥ ते केवलं सन्ददृशुः शिताग्रान् बाणान् रणे वानरवाहिनीषु । मायानिगूढं तु सुरेन्द्रशत्रुं न चावृतं राक्षसमभ्यपश्यन् ॥ ५१ ॥ ततः स रक्षोधि पतिर्महात्मा सर्व दिशो बाणगणैः शिताग्रैः । प्रच्छादयामास रविप्रकाशैर्विषादयामास च वानरेन्द्रान् ॥ ५२ ॥ स्वसैन्यं स्वसैन्योपरिभागम् ॥ ४९ ॥ ५० ॥ मायानिगूढम् अत एव आवृतम् अप्रकाशम् ॥ ६१-५३ ॥
२१६
Acharya Shri Kailassagarsuri Gyanmandir
दत्तवरैः वरलब्धैरित्यर्थः ॥ ४४-४८ ॥ स्वसैन्यमुत्सृज्य स्वसैन्यस्योपरिभागमुत्सृज्य ॥ ४९ ॥ ५० ॥ ते केवलमिति । मायानिगूढम् अत एव आवृतम् अप्रकाशम् ॥ ५१-६६ ॥
For Private And Personal Use Only