________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
प्रदक्षिणेति। प्रदक्षिण आवर्ता भ्रमिर्यासां ताःशिखा यस्येति विग्रहः । स्वयमास्थितः सयमास्थावान् । स्वयमुत्थित इति पाठे पुरुषरूपेणोत्थितः इत्यर्थः | ॥२२॥ आहारयामास आजुहाव । अभ्यमन्त्रयत् अभिमन्त्रितवान् ॥ २३ ॥ वितत्रास चचाल ॥२४॥ आत्मानम् अन्तर्दधे अन्तर्धापयामास ।
प्रदक्षिणावर्तशिखस्तप्तकाञ्चनभूषणः।हविस्तत् प्रतिजग्राह पावकः स्वयमास्थितः ॥२२॥ सोऽस्त्रमाहारयामास ब्राह्ममिन्द्ररिपुस्तदा।धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् ॥ २३ ॥ तस्मिन्नाहूयमानेऽस्खे हूयमाने च पावके । सार्धं ग्रहेन्दुनक्षत्रैर्वितत्रास नभःस्थलम् ॥ २४॥ स पावकं पावकदीप्ततेजा हुत्वा महेन्द्रप्रतिमप्रभावः । सचाप बाणासिरथाश्वमूतः खेऽन्तर्दधेत्मानमचिन्त्यरूपः॥ २५॥ ततो हुयरथाकीर्ण पताकाध्वजशोभितम् । निर्ययौ राक्षसबलं नर्दमानं युयुत्सया ॥ २६ ॥ ते शरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलंकृतैः। तोमरैरङ्कुशैश्चापि वानरान् जघ्नु राहवे ॥२७॥रावणिस्तु ततःक्रुद्धस्तानिरीक्ष्य निशाचरान् । हृष्टा भवन्तो युद्धचन्तु वानराणां जिसिया ॥२८॥ ततस्ते राक्षसाः सर्वे नर्दन्तो जयकांक्षिणः। अभ्यवर्षस्ततो घोरान वानरान् शरवृष्टिभिः॥ २९ ॥ स तु नालीकनाराचैर्गदाभिर्मुसलैरपि । रक्षोभिः संवृतः सङ्खये वानरान् विचकत ह ॥३०॥ अन्तर्भावितण्यर्थोऽयम् । खेऽन्तर्दधेत्मानमित्यत्र आर्षे पूर्वरूपत्वम् । अचिन्त्यरूपः अचिन्त्यमन्त्रशक्तिः ॥२५-२७॥ रावणिस्त्विति । उवाचेति शेषः। ॥ २८॥ ततः तस्मात् रावणिवचनात् । द्वितीयस्ततःशब्दः पश्चाच्छन्दार्थः ॥ २९ ॥ नालीकः विशालाग्रशरः । रक्षोभिः संवृतः रक्षोगणमध्यत । उपरिस्थित इत्यर्थः । अन्यथा खेऽन्तर्दध इति पूर्वोक्तं विरुध्येत । विचकत हिसितवान् ॥ ३०॥रामानु-रक्षोभिः सहितः । इति वा पाठः ॥ ३० ॥ रोद्रकर्मणि तेषां विनियुक्तत्वात ॥ १९-२२ ॥ सोऽस्वामिति । आहारयामास आजुहाव ॥२३॥ २४ ॥ खेऽन्तर्दधत्मानमित्यत्राकारलोप छान्दसः आत्मानमन्तर्दधे, अन्तर्धापयामासेत्यर्थः ॥ २५-२७ ॥ युद्धयन्तु, इत्यादिदेशेति शेषः ॥ २८ ॥ २९ ॥ रक्षोभिः संवृतः राक्षससैन्योपरि प्रत्यासत्राकाशप्रदेशे स्थित इत्यर्थः । अन्यथा खेऽन्तर्दध इत्येतद्विरुध्येत । रक्षोभिस्सहित इति वा पाठः ॥ ३०-३४ ॥
For Private And Personal Use Only