________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.भू. ॥२२९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवीज्यतेति । हेमैः हेमदण्डैः । हेमविभूषितैः हेमशलाकायुक्तः ।। १४ ।। १५ ।। रथं प्रति रथसिद्धिमुद्दिश्य ॥ १६ ॥ विधिवत् क्रमवत् ॥१७॥ हविर्लाज संस्कारैः संस्कृतदविजैः ॥ १८ ॥ शस्त्राणि आयुधानि । शरपत्राणि काशपत्र स्थानीयानि । तानि परिस्तरणान्यासन्नित्यर्थः । " शरमयं बर्हिः सशङ्खशशिवर्णेन छत्रेण रिपुसूदनः । रराज प्रतिपूर्णेन नभश्चन्द्रमसा यथा ॥ १३ ॥ अवीज्यत ततो वीरो हैमैर्हेम विभूषितैः । चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् ॥ १४॥ ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा । रराजा प्रतिवीरेण द्यौरिवार्केण भास्वता ॥ १५ ॥ स सम्प्राप्य महातेजा युद्धभूमिमरिन्दमः । स्थापयामास रक्षांसि रथं प्रति समन्ततः ॥ १६ ॥ ततस्तु हृतभोक्तारं हुतभुक्सदृशप्रभः । जुहाव राक्षस श्रेष्ठो मन्त्रवद्विधिवत्तदा ॥ १७॥ सहविर्लाजसंस्कारैर्माल्यगन्धपुरस्कृतेः । जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् ॥ १८ ॥ शस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः । लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥ १९ ॥ स तत्राग्रिं समास्तीर्य शरपत्रैः सतोमरैः । छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः ॥ २० ॥ सकृदेव समिद्धस्य विधूमस्य महार्चिषः । बभ्रुवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् ॥ २१ ॥
स्तृणाति" इत्यभिचारे काश श्चोदितः । अत्र त्वभिचारविशेषे तत्स्थाने शस्त्राणि कृतानीति बोध्यम् । विभीतकाः कलिद्रुमविकाराः । "वैभीतक इध्मः " इति श्रुतेः । वासांसि स्वधार्याणि । यद्वा शस्त्राणि तोमरादीनि शरपत्राणि च बर्हीष्यासन्निति शेषः । शरपत्रैः सतोमरैरित्यनुवादात् । कार्ष्णायसं स्रुवम् । कृतमिति शेषः ॥ १९ ॥ तत्र युद्धभूमौ । आस्तीर्य परिस्तीर्य ॥ २० ॥ सकृत् समिद्धस्य एकदा समिद्भिर्ज्वलितस्य । लिङ्गानि उक्तसक त्समिद्धत्वविधूमत्वमहाचिवानि । विजयं यान्यदर्शयन्, पूर्वमिति शेषः ॥ २१ ॥
अवीज्यतेति । हेमैः हिरण्मयदण्डेः ॥ १४-१७ ॥ लाज संस्कारैः संस्कृतहविलजेरित्यर्थः ॥ १८ ॥ शस्त्राण्येव शरपत्राणि समास्तरणानि । शराः काशविशेषाः, • स तु दृद्वा विनियन्तं बलेन महता वृतम् । राक्षसाधिपतिः श्रीमान रावणः पुत्रमन्त्रवीत् ॥ त्वमप्रविरथः पुत्र त्वया में वासवो जितः किं पुनर्मानुषं वृष्यं निहनिष्यसि रायनम् । तयोको राक्षसे न्द्रेण प्रत्यगृहान्महाशिषः । इदं कम अंतराहपाठ एवं दृश्यते नतु दाक्षिणात्यप्राचीनकोशेषु ॥
For Private And Personal Use Only
टी. यु. कॉ. स०७३
॥२२९॥