SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir स०७३ वा.रा.भ. द्रष्टव्यमित्यादिशोकद्वयमेकान्वयम् । पदं व्यवसितम् । दर्शनप्रकारमाह-द्विषतामिति । द्विषतां बलं स्थितं किम् ? उद्युक्तम् उद्यतं किम् ?- टी.यु.को, साआपतन्तम् । लिङ्गादिव्यत्यय आपः । आपतत् किमिति सदा द्रष्टव्यमित्यर्थः । आपतत् किमिति पा सुशोभनः -१९ ॥ इति । Mश्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्विसप्ततितमः सर्गः ॥७२॥ द्रष्टव्यं च पदं तेषां वानराणां निशाचराः। प्रदोषे वार्धरात्रे वा प्रत्यूषे वापिसर्वतः॥१५॥ नावनात्र कर्तव्या वानरेषु कदाचन । द्विषतां बलमुद्युक्तमापतत् किं स्थितं सदा ॥ १६॥ ततस्ते राक्षसाः सर्वे श्रुत्वा लङ्काधिपस्य तत् । वचनं सर्वमातिष्ठन् यथावत्तु महाबलाः॥१७॥ स तान् सर्वान समादिश्य रावणो राक्षसाधिपः। मन्युशल्यं वहन दीनः प्रविवेश स्वमालयम् ॥१८॥ ततः स सन्दीपितकोपवह्निर्निशाचराणामधिपो महाबलः। तदेव पुत्रव्यसनं विचिन्तयन् मुहुर्मुहुश्चैव तदा व्यनिश्वसत् ॥१९॥ इत्याचे श्रीरामा० श्रीमद्युद्धकाण्डे द्विसप्ततितमः सर्गः ॥७२॥ ततो हतान् राक्षसपुङ्गवांस्तान् देवान्तकादित्रिशिरोतिकायान् । रक्षोगणास्तत्र हतावशिष्टास्ते रावणाय त्वरितं शशंसुः॥१॥ ततो हतांस्तान सहसा निशम्य राजा मुमोहाश्रुपरिप्लुताक्षः । पुत्रक्षयं भ्रातृवधं च घोरं विचिन्त्य राजा विपुलं प्रदध्यौ ॥ २॥ ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे सम्परिपुप्लुवानम् । स्थर्षभो राक्षसराजमूनु स्तमिन्द्रजिद्वाक्यमिदं बभाषे ॥३॥ अथ ब्रह्मास्त्रबन्धस्त्रिसप्ततितमे-ततो हतानित्यादि ॥१॥पूर्व कुम्भकर्णादिवधः सामान्येन श्रुतः सम्प्रत्याप्तः सविशेष श्रुत इत्याह तत इति । पूर्वोक्त सर्वानुवादो वा ॥२॥रामानु०-अत्र देवान्तकादित्रिशिरोतिकायान् हतान त्वरितं शशमुः, घोरं पुत्रशयं भ्रातृवधं च विचिन्त्य विपुलं प्रदध्याविति चाभिधानात पूर्व रावणेन अति IMकायवध एव श्रुत इत्यवगम्यते यद्वा पूर्वोक्तानुवादः ॥ १॥ तत इति । संपरिपप्लवानम् । लटः शानजादेशः ॥३॥ द्रष्टव्यमिति । दर्शनप्रकारमेवाह द्विषतामिति । द्विषता बलं किमुद्युक्तं किमापतत् । किं स्थितं किं तिष्ठतीति सदा द्रष्टव्यमित्यर्थः ॥ १५-१९ ॥ इति श्रीमहेश्वर । तीर्थविरचितायां श्रीरामायणतत्त्वदीपिकारूपायर्या युद्धकाण्डम्यारुयायां द्विसप्ततितमः सर्गः ॥२॥१॥ उक्तमेवार्थमनुवदनि । ततो हतानिति ।।२।। संपरिपुप्लुवाना २२८॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy