________________
Acharya Shri Kasagarsur Gyanmandir
Shri Mahavir Jain Arachana Kendra
www.kobatirn.org यो भ्रातरो खरदूषणादिवधेन प्रसिद्धौ तावपि बदौ । तदेव बन्धनं वर्णयति यदिति । यद्वन्धनं सुरादिभिः मोक्तुं मोचयितुम् अशक्यं तद्वन्धनं पोरम् । भ्रातरौ तौ शरबन्धाद्विमुक्ताविति यत् तत् प्रभावादिषु केन वा जातं न जान इत्यन्वयः। प्रभावः सामर्थ्यम् । माया व्यामोहकारिणी विद्या। मोहनम्।
यन्न शक्यं सुरैः सर्वेरसुरैर्वा महाबलैः । मोक्तुं तद्वन्धनं घोरं यक्षगन्धर्वकिन्नरैः ॥६॥ तन्न जाने प्रभावैर्वा मायया मोहनेन वा । शरबन्धाद्विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ ॥७॥ ये योधा निर्गताः शूरा राक्षसा मम शासनात् । ते सर्वे निहता युद्धे वानरैः सुमहावलैः ॥८॥ तं न पश्याम्यहं युद्धे योऽद्य रामं सलक्ष्मणम् । शासयेत् सबलं वीरं ससुग्रीवविभीषणम् ॥९॥ अहो नु बलवान रामो महदस्त्रबलं च वै । यस्य विक्रममासाद्य राक्षसा निधनं गताः ॥ १०॥ तं मन्ये राघवं वीरं नारायणमनामयम् । तद्भयाद्धि पुरी लङ्का पिहितद्वारतोरणा ॥११॥ अप्रमत्तैश्च सर्वत्र गुप्त रक्ष्या पुरी त्वियम् ॥१२॥अशोकवनिकायां च यत्र सीताऽभिरक्ष्यते। निष्कामो वा प्रवेशो वा ज्ञातव्यः
सर्वथैव नः ॥ १३॥ यत्र यत्र भवेद् गुल्मस्तत्र तत्र पुनः पुनः । सर्वतश्चापि तिष्ठध्वं स्वैः स्वैः परिवृता बलैः ॥१४॥ Mऔषधादिकम् ॥५-९॥ अहो न्वित्यादिश्लोकद्वयमेकान्वयम् । पिहितद्वारतोरणा द्वारम् अन्तरिम्, तोरणं बहिरम् ॥१०॥११॥ एवं रामप्रभाव
सप्रपञ्चमुक्त्वा सैन्यं प्रति पुरीरक्षणं नियमयति-अप्रमत्तरित्यादिना । गुप्तैः स्वयं कृतरक्षणैः । गुल्मैरिति वा पाठः ॥ १२ ॥ अशोकेति । यत्र सीता अभिरक्ष्यते तत्र अशोकवनिकायाम् । निष्कामः निर्गमः प्रवेशो वा । नः अस्माभिः ज्ञातव्यः । मदनुज्ञां विना न कोऽपि जनो निर्गमयितव्यो नापि । प्रवेष्टव्य इत्यर्थः ॥ १३॥ यत्र यत्रोति । गुल्मः सेनासनिवेशः ॥ ११॥ भ्रातरौ इन्द्रजिता दत्तवरैः शरैर्बद्धौ, यद्वन्धन सुरासुरादिभिः प्रत्येक मोकुं मोचयितुं न शक्यं तद्वन्धनं घोरं प्रचण्हं सर्वेस्समेतैरपि मोकुं न शक्यं तौ राम| लक्ष्मणौ प्रभावैः सहजमाहात्म्यैः । मायया विचित्रशक्तया । मोहनेन वा बन्धकनागपाशमोहनेन वा । शरवन्धाद्विमुक्तो तन्त्र जान इति योजना ॥५-१२ ॥ अशोकवनिकायौ यत्र प्रदेशे सीताऽभिरक्ष्यते तत्र निष्क्रामः प्रवेशो वा नः अस्माभितिव्य इत्यर्थः ॥ १३ ॥ १४ ॥ स०-अनामयं कार्यवाचकपदेन कारणं दोषो गृह्यते । निदा नारायणम ॥ ११॥
For Private And Personal Use Only