________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
॥२२७॥
इतिवैजयन्ती ॥ १०५-१०८ ॥ त इति । विस्वरैः विस्वररूपैः ॥१०९॥ तत इति । निरपेक्षा युद्धानपेक्षाः ॥ ११० ॥ प्रहर्षेति । प्रबुद्धेत्या प्रसन्नत्त्वे टी.यु.का? तं तु भूमौ निपतितं दृष्ट्वा विक्षिप्तभूषणम् । बभूवुर्व्यथिताः सर्वे हतशेषा निशाचराः ॥ १०८॥ ते विषण्णमुखा दीनाः प्रहारजनितश्रमाः । विनेदुरुच्चैर्बहवः सहसा विस्वरैः स्वरैः ॥ १०९॥ ततस्ते त्वरितं याता निरपेक्षा निशाचराः। पुरीमभिमुखा भीता द्रवन्तो नायके हते ॥ ११०॥ प्रहर्षयुक्ता बहवस्तु वानराः प्रबुद्धपद्मप्रतिमानना स्तदा । अपूजयन् लक्ष्मणमिष्टभागिनं हते रिपौ भीमबले दुरासदे ॥ [ अतिबलमतिकायमभ्रकल्पं युधि विनिपात्य स लक्ष्मणः प्रहृष्टः । त्वरितमथ तदा स रामपार्श्व कपिनिवहैश्च सुपूजितो जगाम] ॥१११॥ इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकसप्ततितमः सर्गः॥७१॥ अतिकायं हतं श्रुत्वा लक्ष्मणेन महौजसा । उद्वेगमगमद्राजा वचनं चेदमब्रवीत् ॥ १॥ धूम्राक्षः परमामर्षी धन्वी शस्त्रभृतां वरः । अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च ॥२॥ एते महाबला वीरा राक्षसा युद्धकाक्षिणः। जेतारः परसैन्यानां परैर्नित्यापराजिताः ॥ ३ ॥ निहतास्ते महावीर्या रामेणाक्लिष्टकर्मणा । राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः। अन्ये च बहवः शूरा महात्मानो निपातिताः ॥४॥ प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम ।
यौ हि तौ भ्रातरौ वीरौ बद्धौ दत्तवरैः शरैः ॥५॥ तात्पर्यम् । इष्टस्य जयस्य भागः प्राप्तिः सोऽस्यास्तीतीष्टभागी तम् ॥ १११ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकसप्ततितमः सर्गः ॥ ७१ ॥ अथ रावणचिन्ता-अतिकायमित्यादि ॥ १-४॥ प्रख्यातेत्यादिश्लोकत्रयमेकं वाक्यम् । वीरौ ।
॥२२७॥ प्रहर्षयुक्ता इति । इष्टभागिनम् इष्टस्य भागः प्राप्तिः तद्वन्तम् । इष्टमतिकायवधं प्राप्तवन्तमित्यर्थः ॥ १११॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व दीपिकाख्यायां युद्धकाण्डव्याख्यायाम् एकसप्ततितमः सर्गः॥ ७१ ॥ १-४ ॥ प्रख्यातबलवीर्येणेत्यादि श्लोकत्रयमेकं वाक्यम् । यो खरदूषणादिनिरासको वीरौ तो
For Private And Personal Use Only