________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
ततस्त्विति । ब्राह्ममत्रं ब्रह्मास्त्रमन्त्रम् । नियोज्य जपित्वेति यावत् ।। १०० ॥ तस्मिन्निति । दिशश्चेत्यादौ तत्रसुरिति विपरिणम्यानुषज्यते ॥१०॥
ब्राह्मणास्त्रेण भिन्द्धयेनमेष वध्यो हि नान्यथा ।अवध्य एष ह्यन्येषामत्राणां कवची बली ॥९९॥ ततस्तु वायोर्वचनं निशम्य सौमित्रिरिन्द्रप्रतिमानवीर्यः । समाददे बाणममोघवेग तद् ब्राह्ममत्रं सहसा नियोज्य। 100॥ तस्मिन् महास्त्र तु नियुज्यमाने सौमित्रिणा बाणवरे शिताये। दिशश्च चन्द्रार्कमहाग्रहाश्च नभश्च तत्रास चचाल चोर्वी ॥१०१॥ तं ब्रह्मणोऽस्त्रेण नियोज्य चापे शरं सुपुङ्ख यमदूतकल्पम् । सौमित्रिरिन्द्रारिसुतस्य तस्य ससर्ज बाण युधि वजकल्पम् ॥ १०२॥ तं लक्ष्मणोत्सृष्टममोघवेगं समापतन्तं ज्वलनप्रकाशम् । सुवर्णवजात्तमचित्रपुङ्गं तदाऽतिकायः समरे ददर्श ॥ १०३ ॥ तं प्रेक्षमाणः सहसाऽतिकायो जघान बाणैर्निशितैरनेकैः । स सायकस्तस्य सुपर्णवेगस्तदाऽतिकायस्य जगाम पार्श्वम् ॥१०॥ तमागतं प्रेक्ष्य तदाऽतिकायो बाणं प्रदीप्तान्तककालकल्पम् । जघान शक्त्यष्टिगदाकुठारैः शूलैर्छलैश्चात्यविपन्नचेताः ॥ १०५॥ तान्यायुधान्यद्धतविग्रहाणि मोघानि कृत्वा स शरोऽग्निदीप्तः। प्रगृह्य तस्यैव किरीटजुष्टं ततोऽतिकायस्य शिरो जहार ॥१०६॥ तच्छिरः सशिरस्त्राणं लक्ष्मणेषु
प्रपीडितम् । पपात सहसा भूमौ शृङ्ग हिमवतो यथा ॥ १०७ ॥ तमिति । नियोज्य जपित्वा। तस्य यमदूतकल्पमित्यन्वयः ॥१०२-१०४॥ तमागतमिति । हुलैः द्विफलपत्राग्रायुधविशेषैः। “हुलं विफलपत्रायम्"
स-सशिरस्त्राणं समुकुटम् । अपमेन भारतोककुम्भकर्णाभिधो लक्ष्मणहतः । " बृहत्तनुः कुम्भवदेव कर्णावस्येत्यतो नाम च कुम्भकर्णः " इत्यारम्प-" तेनातिकायः प्रबरोऽववित्सु " इत्यन्तेन तात्पर्य माचार्यबर्याः प्रापपीपदनिति तथैव भारतार्थोऽनुसन्धयः । प्रपधितश्चायम योऽस्माभिः प्रक्रमतोऽनुसन्धेयः ॥ १०७ ॥ [ त्रिशिरोऽतिकायदेवान्तकनरान्तकमहोदरमहापार्धानां पडिदिनर्माद्राश्विनकृष्णषष्ठयन्तेन वध इति बये स्पष्टम् ॥]
For Private And Personal Use Only