________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
बा-रा.भू. ३२२६॥
टो.यु.का.
समादधे अनुसन्दधे ।। ८६ ॥ तदस्त्रमिति । आहित संहितम् ॥ ८७-८९ ॥ तावन्योन्यमिति । भस्मकृतौ भस्मतया कृतौ ॥९०-९९ ॥
तदा ज्वलितं घोरं लक्ष्मणः शरमाहितम् । अतिकायाय चिक्षेप कालदण्डमिवान्तकः ॥ ८७॥ आग्रेयेनाभि संयुक्तं दृष्ट्वा बाणं निशाचरः। उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयोजितम् ॥ ८८॥ तावुभावम्बरे बाणावन्योन्य मभिजघ्रतुः। तेजसा सम्प्रदीप्तायौ क्रुद्धाविव भुजङ्गमौ ॥८९॥ तावन्योन्यं विनिर्दह्य पेततुः पृथिवीतले । निरार्चिषौ भस्मकृतो नभ्राजेते शरोत्तमौ ॥९०॥ ततोऽतिकायः संकुद्धस्त्वस्त्रमैषीकमुत्सृजत् । तत् प्रचिच्छेद सौमित्रिरस्त्रेणै न्द्रेण वीर्यवान् ॥ ९१ ॥ ऐषीक निहतं दृष्ट्वा रुषितो रावणात्मजः । याम्येनास्त्रेण संक्रुद्धो योजयामास सायकम् ॥ ९२ ॥ ततस्तदत्रं चिक्षेप लक्ष्मणाय निशाचरः। वायव्येन तदत्रेण निजघान स लक्ष्मणः ॥ ९३ ॥ अथैनं शरधाराभिर्धाराभिरिव तोयदः । अभ्यवर्षत् सुसंक्रुद्धो लक्ष्मणो रावणात्मजम् ॥ ९४ ॥ तेऽतिकार्य समासाद्य कवचे वजभूषिते । भनाग्रशल्याः सहसा पेतुर्बाणा महीतले ॥९५॥ तान् मोघानभिसम्प्रेक्ष्य लक्ष्मणः परवीरहा। अभ्यवर्षन्महेषूणां सहस्रेण महायशाः॥ ९६॥ स वृष्यमाणो बाणौधैरतिकायो महाबलः। अवध्यकवचःसङ्ख्ये राक्षसो नैव विव्यथे । न शशाक रुजं कर्तु युधि तस्य शरोत्तमः॥ ९७॥ अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह। ब्रह्मदत्तवरो ह्येष अवध्यकवचावृतः ॥९८॥ स-निरचिंचों निष्प्रभो । मस्मकृतौ मस्म ाते इति तथा । पृथिवीतळे पतितो न आजेते । महीतले विद्यमानौ तौ मोक्तारी लक्ष्मणातिकापावपि दीप्यमानौ प्राक् हतोऽयमिति परस्परं जयप्रकाशी न भाजेतेश्म मोधीभूतबाणाबित्यभाजनं युक्तमिति मावः । अतो न पुनशक्तिः । महाइवे इत्यपि कचित्पाठः ॥९॥
शरं चाशीविषाकार लक्ष्मणाय व्यपासृजत् । स तेन विद्धः सौमित्रिमर्मदेशे शरेण ह। मुहूर्तमात्रं निःसंझो अभवच्छतापनः । ततः संज्ञामुपालभ्य चतुर्भिः बायकोत्तमैः । निजधान । ये सारथिं च महाबळ: । ध्वजस्थोन्मथनं कृत्वा शरवरारिन्दमः | असंभ्रान्तः स सौमित्रिस्वान् शरानमिळाक्षितान् । मुमोच लक्ष्मण बागान् वधार्थ तस्य रक्षसः ॥ इत्यधिकः पाठः।
॥२२॥
For Private And Personal Use Only