SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir चिन्तयामासेत्यादिश्योकद्वयमेकान्वयम् । विमृश्य करणीयं निर्धार्य । बाणनिपातेन मे साधु शाघनीयो रिपुरसीति । एवं लक्ष्मणं विधाय अभिधाय ।। आस्यं विनम्य भुजौ नियम्य वशे स्थापयित्वा । रथोपस्थमास्थाय रथेन प्रचचार हेति संबन्धः ॥ ७६॥ ७७॥ एकमिति । इति उक्तप्रकारेण चिन्तयामास चाश्वास्य विमृश्य च महाबलः । साधु बाणनिपातेन श्लाघनीयोऽसि मे रिपुः ॥ ७६ ॥ विधायैवं विनम्यास्यं नियम्य च भुजावुभौ ।स रथोपस्थमास्थाय रथेच प्रचचार ह ॥७७॥ एकं त्रीन पञ्च सप्तेति सायकान राक्षसर्षभः। आददे सन्दधे चापि विचकर्षोंत्ससर्ज च ॥७८ ॥ ते बाणाः कालसङ्काशा राक्षसेन्द्रधनुश्युताः । हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् ॥ ७९ ॥ ततस्तान राक्षसोत्सृष्टान् शरौघान् राघवानुजः । असम्भ्रान्तः प्रचिच्छेद निशितैबहुभिः शरैः ॥८०॥ तान् शरान युधि सम्प्रेक्ष्य निकृत्तान् रावणात्मजः ।चुकोप त्रिदशेन्द्रारि जग्राह निशितं शरम् ॥ ८१ ॥ स सन्धाय महातेजास्तं बाणं सहसोत्सृजत् । ततः सौमित्रिमायान्तमाजघान स्तनान्तरे ॥ ८२॥ अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि । सुस्राव रुधिरं तीवं मदं मत्त इव द्विपः ॥ ८३॥ स चकार तदाऽऽत्मानं विशल्यं सहसा विभुः । जग्राह च शरं तीक्ष्णमस्त्रेणापि च सन्दधे ॥ ८४॥ आग्रेयेन तदा ऽस्त्रेण योजयामास सायकम् । स जज्वाल तदा बाणो धनुष्यस्य महात्मनः ॥ ८५॥ अतिकायोऽपि तेजस्वी सौरमत्रं समादधे। तेन बाणं भुजङ्गामं हेमपुङ्गमयोजयत् ॥ ८६ ॥ ॥७८-८३ ॥ स चकारेति । अत्रेण अस्त्रमन्त्रेण । सन्दधे योजयामाप्त ॥८४॥ आग्नेयेनेत्यादि । पूर्वोक्तस्यैव विवरणम् ॥८६॥ अतिकायोऽपीति ।। चिन्तयामास चिन्तित्वा आश्वास्य विमृश्य करणीयं कार्य निर्धार्य बाणनिपानेन मे साधु श्लाघनीयो रिपुरसीत्येवं विधाय आभिधाय आस्यं विनम्यभुजो नियम्य वशे स्थापयित्वा रथोपस्थमास्थाय रथेन प्रचचार हेत्यन्वयः ॥७६-८३॥ स इति । अत्रेण अस्त्रमन्त्रेण ॥८४ा आग्नेयेनेत्यादि पूर्वोक्तस्यैव विवरणम् ॥ ८५-११०॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy