SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir सुखप्रसुप्तमिति । निबोधयितुं ज्वलयितुम् । मा जहि मा हिंसीः । “हन्तेजः" इति जादेशः । मद्गतः मां प्राप्तः ॥५३॥ अथवेति । प्रतिष्टब्धः प्रतिमुख - सुखप्रसुप्त कालाग्निं निबोधयितुमिच्छसि । न्यस्य चापं निवर्तस्व मा प्राणान् जहि मद्गतः॥५३ ॥ अथवा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि । तिष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम् ॥५४॥ पश्य मे निशितान बाणानरिदर्पनिषूदनान । ईश्वरायुधसङ्काशस्तिप्तकाञ्चनभूषणान् ॥ ५५ ॥ एष ते सर्पसङ्काशो बाणः पास्यति शोणितम् । मृगराज इव क्रुद्धो नागराजस्य शोणितम् । इत्येवमुक्त्वा संक्रुद्धः शरं धनुषि सन्दधे ॥ ५६ ॥ श्रुत्वा ऽतिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः । स सञ्चकोपातिबलो बृहच्छ्रीरुवाच वाक्यं च ततो महा र्थम् ॥५६॥ न वाक्यमात्रेण भवान् प्रधानो न कत्थनात् सत्पुरुषा भवन्ति । मयि स्थिते धन्विनि बाणपाणौ निद शेय स्वात्मबलं दुरात्मन् ॥ ५८॥ कर्मणा सूचयात्मानं न विकत्थितुमर्हसि । पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ॥५९ ॥ सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः। शरैर्वा यदि वाप्यत्रैर्दर्शयस्व पराक्रमम् ॥६॥ ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः। मारुतः कालसम्पक्कं वृन्तात्तालफलं यथा ॥६॥ अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः । पास्यन्ति रुधिरं गात्राद्वाणशल्यान्तरोत्थितम् ॥ ६२॥ स्थितः ॥५४॥ पश्येति । ईश्वरायुधं त्रिशुलम् ।।५५-५७॥ न वाक्यमात्रणेति । कथनात् आत्मश्लाघनात् । सत्पुरुषाः शूरपुरुषाः॥५८-६०॥ तत इति । वृन्तात् प्रसवबन्धनात् । “वृन्तं प्रसवबन्धनम्" इत्यमरः ॥६१ ॥ अद्यत इति । बाणशल्यान्तरोत्थितमिति । बाणशल्यान्तराणि । भयङ्करम् ॥ ४९-५३ ।। प्रतिष्टब्धः अभिमुखं स्थितः यमक्षयं गमिष्यसि । वस्तुतस्तु-निवर्तितुं नेच्छसि यदि त्वं तिष्ठ । गमिष्यसि, जयं प्राप्योति शेषः । पाणान । परित्यज्याहं गमिष्यामीति क्रियाविपरिणामः ॥ ५४॥ ईश्वरायुधं त्रिशूलम् ॥ ५५ ॥ एष इति । ते तव शोणितं पास्यति । वस्तुतस्तु ते तव बाणः शोणितं पास्यति, ममेति शेषः ॥ ५६-६१ ॥ अद्य त इति । बाणशल्यान्तरोत्थितं बाणशल्यकृतप्रदेशादुत्थितम् ॥ ६२-६६ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy