SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir तस्येत्यादि श्लोकद्वयम् । नये युक्तौ। मन्त्रे विचारे ॥ २८-३३ ॥ वज्रमित्यादि श्लोकद्वयम् । विष्टम्भितं निश्चलीकृतम् । राक्षसानामयर्षभः तस्यासीद्वीर्यवान् पुत्रो रावणप्रतिमो रणे । वृद्धसेवी श्रुतिधरः सर्वास्त्रविदुषां वरः ॥ २८॥ अश्वष्टष्ठे रथे नागे खड्ने धनुषि कर्षणे। भेदे सान्त्वे च दाने च नये मन्त्रे च सम्मतः ॥२९॥ यस्य बाहू समाश्रित्य लङ्का वसति निर्भया । तनयं धान्यमालिन्या अतिकायमिमं विदुः॥३०॥ एतेनाराधितो ब्रह्मा तपसाभावितात्मना । अत्राणि चाप्यवाप्तानि रिपवश्च पराजिताः॥३१॥ सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवा । एतच्च कवचं दिव्यं रथश्चैषोऽर्क भास्वरः ॥ ३२॥ एतेन शतशो देवा दानवाश्च पराजिताः। रक्षितानि च रक्षांसि यक्षाश्चापि निषूदिताः॥३३॥ वचं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः। पाशः सलिलराजस्य रणे प्रतिहतस्तथा ॥ ३४॥ एषोऽतिकायो बलवान् राक्षसानामथर्षभः। रावणस्य सुतो धीमान देवदानवदर्पहा ॥ ३५॥ तदस्मिन् क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव । पुरा वानरसैन्यानि क्षयं नयति सायकैः ॥ ३६॥ ततोऽतिकायो बलवान् प्रविश्य हरिवाहिनीम् । विस्फारयामास धनुर्ननाद च पुनः पुनः ॥ ३७॥ तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम् । अभिपेतुर्महात्मानो ये प्रधाना वनौकसः ॥ ३८॥ कुमुदो द्विविदो मैन्दो नीलः शरभ एव च। पादपर्गिरिशृङ्गैश्च युगपत् समभिद्रवन् ॥ ३९॥ तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः । अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः ॥४०॥ तांश्चैव सर्वान स हरीन शरैः सर्वायसैबली। विव्याधाभिमुखः सङ्खये भीमकायो निशाचरः॥११॥ इत्यत्राथशब्दः कात्स्न्थें ॥३४॥३५॥ तदस्मिन्निति । पुरा नयति, नेष्यन्तीत्यर्थः ॥३६-३८॥ कुमुद इति । समभिद्रवन् आगमशासनस्यानित्यत्वादड भावः ॥ ३९॥ ४०॥ तांश्चेति । अभिमुखः, स्थित इति शेषः॥४१॥४२॥ अश्वेति । अश्वरथगजस्थानानां क्रमेण प्रतिनियतायुधान्याह खड्ने धनुषि कर्षण इति । कृष्यतेऽनेनेति कर्षणः पाशादिः, तोमरभेदो वा ॥ २९-३८ ॥ कुमुद इति। For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy