________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त इति । माहात्म्यं महत्त्वम् । उत्थित इत्यनन्तरमितिकरणं द्रष्टव्यम् ॥ ७-११॥ कोऽसावित्यादि । हरिलोचनः सिंहदृष्टिः॥ १२ ॥ १३ ॥ रथशक्तीभिः रथ ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णोऽयमुत्थितः । भयार्ता वानराः सर्वे संश्रयन्ते परस्परम् ॥ ७ ॥ ते तस्य रूप मालोक्य यथा विष्णोस्त्रिविक्रमे । भयाद्वानरयूथास्ते विद्रवन्ति ततस्ततः ॥ ८ ॥ तेऽतिकायं समासाद्य वानरा मूढ़ चेतसः । शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ॥ ९ ॥ ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम् । ददर्श धन्विनं दूराद्गर्जन्तं कालमेघवत् ॥ १० ॥ स तं दृष्ट्वा महात्मानं राघवस्तु विसिष्मिये । वानरान् सान्त्वयित्वाऽथ विभीषण मुवाच ह ॥ ११ ॥ कोऽसौ पर्वतसङ्काशो धनुष्मान् हरिलोचनः । युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः ॥ १२ ॥ य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः । अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ॥ १३ ॥ कालजिह्वाप्रकाशाभिर्य एषोऽतिविराजते । आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ॥ १४ ॥ धनूंषि चास्य सज्यानि हेमष्टष्ठानि सर्वशः । शोभ यन्ति रथश्रेष्ठं शक्रचाप इवाम्बरम् ॥ १५ ॥ क एष रक्षश्शार्दूलो रणभूमिं विराजयन् । अभ्येति रथिनां श्रेष्ठो रथेना दित्यतेजसा ॥ १६ ॥ ध्वजशृङ्गप्रतिष्ठेन राहुणाऽभिविराजते । सूर्यरश्मिनिभैर्वाणैर्दिशो दश विराजयन् ॥ १७ ॥ | स्थिताभिः शक्तिभिः ॥ १४-१६ ॥ ध्वजशृङ्गप्रतिष्ठेनेति । अनेन राहुध्वजोऽयमित्युक्तम् ॥ १७ ॥
ते तस्य रूपमिति । ते तस्य रूपमालोक्य ते विद्रवन्तीति तच्छद्वयस्य निर्वाहः ॥ ८-११ ॥ कोऽसाविति । हरिलोचनः सिंहदृष्टिः ॥ १२ ॥ १३ ॥ रथशक्तीभिः | रथस्थिताभिः ॥ १४-१६ ॥ ध्वजशृङ्गप्रतिष्ठेनेत्यनेन राहुध्वज इत्युक्तं भवति ॥ १७ ॥
० ते वानराः चिति व्यद्रवन् । वानरयोधास्ते वानरयोधा अस्ता यस्मिंस्तस्मिन्त्रणमण्डले । अस्तं गावे कः । वानरयोधानामसने सति श्रायकाभावात्ततस्ततो व्यद्रवन्निति मावः । ये ये तस्य रूपमालोक्य स्थितास्ते ते सर्वे ततस्ततो विद्रवन्तीत्यन्ययेन तेद्वयं सार्थकमिति वा । न च मिन्नार्धगतयोस्तेशब्दयोः कथमैकरथल्यसम्पादनेन वीप्सात्यमिति वाच्यम्, “ये यजत्रा य ईडपाः " इत्यादिवदन्ययमुखेनैकस्वल्योपपत्तेः । 'ते रूपमालोक्य त इव वानरा व विद्रवन्तीति तच्छन्दद्वयनिर्वाहः । वेति शेषः । इति नागोजिमहः । ते तस्य रूपमालोक्य ते विद्रवन्तीति तच्छन्दयनिर्वाहः' इति तीर्थश्च । द्वयोर्मावो बिन्दुविभावनीयः ॥ ८ ॥ हरिलोचनः सिंहदृष्टिः मर्कटदृष्टिर्वा । हरिष्येव लोचनं यस्येति वा ॥ १२ ॥ यः क इत्यर्थः । " यतखोदेति सूर्य " इत्यादिवचच्छन्दः किमर्थे ॥ १५ ॥
For Private And Personal Use Only
1447