________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
तानीति । मुक्तानि अनुभूतपुण्यफलानि । अर्कमार्गात् आकाशात् ॥ ४८॥४९॥ हतं त्रिशिरसमित्यादिचतुःश्लोक्येकान्वया। मत्तः महापाः । मत्त इति महापार्श्वस्य नामान्तरम् । मांसशोणितफेनिलामिति युद्धकालिकरूपम् । शत्रुशोणितरन्त्रितामिति पूर्वकालिकरूपम् । महापद्मः पुण्डरीका
तान्यायताक्षाण्यगसन्निभानि प्रदीप्तवैश्वानरलोचनानि । पेतुः शिरांसीन्द्ररिपोर्धरण्यां ज्योतींषि मुक्तानि यथा ऽर्कमार्गात् ॥४८॥ तस्मिन् हते देवरिपो त्रिशीर्षे हनूमता शक्रपराक्रमेण । नेदुः प्लवङ्गाः प्रचचाल भूमी रक्षा स्यथो दुद्रुविरे समन्तात् ॥४९॥ हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम् । हतौ प्रेक्ष्य दुराधर्षों देवान्तकनरान्तको ॥५०॥ चुकोप परमामर्षी मत्तो राक्षसपुङ्गवः। जग्राहार्चिष्मती धोरां गदां सर्वायसी शुभाम् ॥५०॥ हेमपट्ट परिक्षिप्तां मांसशोणितफेनिलाम् । विराजमानां वपुषा शत्रुशोणितरञ्जिताम् ॥५२॥ तेजसा सम्प्रदीप्तायां रक्तमाल्यविभूषिताम् । ऐरावतमहापद्मसार्वभौमभयावहाम् ॥ ५३ ॥ गदामादाय संक्रुद्धो मत्तो राक्षसपुङ्गवः । हरीन् समभिदुद्राव युगान्ताग्निरिव ज्वलन् ॥५४॥ अथर्षभः समुत्पत्य वानरो रावणानुजम् । मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली ॥५५॥ तं पुरस्तात् स्थितं दृष्ट्वा वानरं पर्वतोपमम् । आजधानोरसि क्रुद्धो गदया वच कल्पया ॥५६॥ स तयाऽभिहतस्तेन गदया वानरर्षभः । भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु ॥ ५७ ॥ स सम्प्राप्य चिरात् संज्ञामृषभो वानरर्षभः । अभिदुद्राव वेगेन गदा तस्य महात्मनः॥५८॥ गृहीत्वा तां गदा भीमा भाविध्य च पुनः पुनः । मत्तानीकं महात्मानं जघान रणमूर्धनि ॥५९ ॥ स स्वया गदया भनो विशीर्णदशने क्षणः। निपपात ततो मत्तो वजाहत इवाचलः॥६० ॥ यदिग्गजः॥५०-५४॥अथेति । मत्तानीकम्, मत्तानीक इति च महापार्श्वस्य नामान्तरम् ॥५५॥५६॥ सतयति। समाधूतः कम्पितः॥५७॥ स इति।। विश्वरूपस्य ॥ ४७-५२ ॥ महापद्मः पुण्डरीकाख्यो दिग्गजः ॥५३-६१ ॥
For Private And Personal Use Only